Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 534
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थोद्देशकः सूत्रम् 378-385 उत्पादपूर्ववस्तूनि, काव्यानि, नारकवात // 510 // प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ। अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ॥२॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः / परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्व शुभः॥३॥पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः / घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥४॥(बृहत्सं० 19-22) इति, तानेव मासभेदेन दर्शयति- माहे त्यादि श्लोकः ।गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तम्, केवलं इत्थित्ताए त्ति स्त्रीतया बिम्बमिति- गर्भप्रतिबिम्बं गर्भाकृतिराह्नवपरिणामो न तु गर्भ एवेति, उक्तञ्चअवस्थितं लोहितमङ्गनाया, वातेन गर्ने ब्रुवतेऽनभिज्ञाः / गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते // 1 // गर्भ जडा भूतहतं वदन्ती त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह-अप्प मित्यादि, शुक्रं- रेतः पुरुषसम्बन्धि ओजआर्त्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो- वातवशेन तत्स्थिरीभवनलक्षणः स्त्र्योजःसमायोगस्तस्मिन् सति बिम्बं तत्र गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तं-अत एव च शुक्रस्य, बाहुल्याजायते पुमान् / रक्तस्य स्त्री तयोः साम्ये, क्लीबः शुक्रा-वे पुनः॥१॥ वायुना बहुशो भिन्ने, यथास्वं बह्वपत्यता। वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः॥२॥इति ॥गर्भः प्राणिनां जन्मविशेषः स चोत्पादोऽभिधीयते, उत्पादश्चोत्पादाभिधानपूर्वे प्रपञ्च्यत इति तत्स्वरूपविशेषप्रतिपादनायाह उप्पायपुव्वस्स णं चत्तारि मूलवत्थू पन्नत्ता // सूत्रम् 378 // चउव्विहे कव्वे पं० त०- गज्जे पज्जे कत्थे गेए ।सूत्रम् 379 // णेरतिताणंचत्तारि समुग्याता पं० सं०- वेयणासमुग्घाते कसायसमुग्घाते मारणंतियसमुग्घाए वेउव्वियसमुग्घाए, एवं वाउक्काइयाणवि।सूत्रम् 380 // ALogi अर्द्धपूर्णार्द्धचन्द्रसमाः कल्पाः , प्रत्येकरसोदधयः, खरावत्ताधुपमया कषायाः // 510 //

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538