Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुथाद्दिशक: / सूत्रम् 347-352 मघा: करण्डकोपमया // 485 // वृक्ष-मत्स्यगोलक-पत्रकटापमा जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति 34, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो- वल्गुलीप्रभृतय एवं लोमपक्षिणोहंसादयः समुद्कवत् पक्षी येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्वीपसमुद्रेषु, एवं विततपक्षिणोऽपीति 35, क्षुद्रा- अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा- उच्छ्रासादिमन्तः क्षुद्रप्राणाः संमूर्छन निर्वृत्ताः सम्मूर्छिमास्तिरश्चांसत्काल योनिर्येषांते तथा ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इतिभवति 36, निपतिता-नीडादवतरीताअवतरीतुंशक्तो नामैकः पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता-न परिव्रजितुं शक्तो बालत्वादित्येकः, एवमन्यः परिव्रजितुं ऽऽचार्याः, शक्तः पुष्टत्वान्न तु निपतितुंभीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति 37, निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तुपरिव्रजिता-परिभ्रमकोग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकोऽन्यः परिव्रजिता-परिभ्रमणशील आचार्यआश्रयान्निर्गतः सन् न तु निपतिता- भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ 38, निष्कृष्टो-निष्कर्षित- भिक्षु-पुरुषाः, स्तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति 39, एतद्भावनार्थमेवानन्तरं सूत्रं-निःकृष्टः पक्षि-क्षुद्रकृशशरीरतया तथा निःकृष्ट आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय इति, अथवा निःकृष्टस्तपसा कृशीकृतः पक्ष्युपमाः पूर्व पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयम्, द्वितीयं तु यथोक्तमेवेति 40, बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तञ्चपठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः / सर्वे (ते)व्यसनिनो राजन्!, यः क्रियावान् स पण्डितः॥१॥ इति, पुनर्बुधः सविवेक चतुर्भङ्गयो मनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमनस्त्वाद्, अपरस्त्वबुधोऽसत्क्रियत्वाद् बुधो विवेकवच्चित्तत्वाच्चतुर्थ उभयनिषेधादिति 41, अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते-बुधः सक्रियत्वाद्, बुधंहृदयं-मनो यस्यसबुधहृदयो विवेचकमनस्त्वात्, अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः 42, आत्मानुकम्पक चतुष्पद प्राणाः, भिक्षवः, निष्कृष्ट बुधादि // 485 //
Loading... Page Navigation 1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538