Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 514
________________ श्रीस्थानाङ्गं वृत्तियुतम् भाग-१ // 490 // भयार्थिनामप्रतिबद्धा विशिष्टसामायिकवतामिति / पुरतोऽग्रतः प्रव्रज्यापर्यायभाविषु शिष्याहारादिषुया प्रतिबद्धासा तथोच्यते, चतुर्थमध्ययन एवं मार्गतः- पृष्ठतः स्वजनादिषु, द्विधाऽपि काचिद्, अप्रतिबद्धा पूर्ववत् / ओवाय त्ति अवपात:- सद्गुरूणां सेवा ततो या चतुःस्थानम्, प्रव्रज्यासाऽवपातप्रव्रज्या, आख्यातस्य-प्रव्रजेत्याधुक्तस्य या स्यात् साऽऽख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, चतुर्थोद्देशक: सूत्रम् 355 संगार त्ति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव यदिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, इहलोकविहगगइ त्ति विहगगत्या- पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् प्रतिबद्धादि प्रव्रज्याभेदाः विहगपव्वज्जे ति पाठस्तत्र विहगस्येवेति दृश्यमिति, विहतस्य वा-दारिद्र्यादिभिररिभिर्वेति।तुयावइत्त त्ति तोदं कृत्वा तोदयित्वाव्यथामुत्पाद्य या प्रव्रज्या दीयते, मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, उयावइत्त त्ति क्वचित्पाठस्तत्र ओजो- बलं शारीरं विद्यादिसत्कं वा तत्कृत्वा-प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, पुयावइत्त त्ति 'प्लुङ्गता'विति वचनात् प्लावयित्वा- अन्यत्र नीत्वाऽऽर्यरक्षितवत्, पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, बुयावइत्त त्ति सम्भाष्य गौतमेन कर्षकवद्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् मोयावइत्त त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, परिवुयावइत्त त्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रडूवद्या सा तथोच्यत इति / नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां खइय त्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा खइव त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः- स्वभावो // 490 // यस्यां सा तथा, एवं भटादिष्वपि, नवरं भटस्तथाविधबलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा सिंहः पुनःशौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वाखादिता तथाविधप्रकृतिर्वा शृगालस्तुन्यग्वृत्त्योपात्तस्यान्यान्य

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538