Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 516
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 492 // चउव्विहा कामा पं० तं०- सिंगारा कलुणा बीभत्सा रोद्दा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोद्दा कामा णेरइयाणं ॥सूत्रम् 357 / / चत्तारी त्यादि व्यक्तम्, केवलं संज्ञानं संज्ञा-चैतन्यम्, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा-आहाराभिलाषोभयसंज्ञा- भयमोहनीयसम्पाद्यो जीवपरिणामो मैथुनसंज्ञा-वेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाष इति, अवमकोष्ठतया- रिक्तोदरतया मत्याआहारकथाश्रवणादिजनितया तदर्थोपयोगेन- सततमाहारचिन्तयेति / हीनसत्त्वतया- सत्त्वाभावेन मतिर्भयवार्ताश्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन- इहलोकादिभयलक्षणार्थपर्यालोचनेनेति / चिते- उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन- मैथुनलक्षणा नुचिन्तनेनेति ।अविमुक्ततया-सपरिग्रहतया मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन- परिग्रहानुचिन्तनेनेति ।संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तञ्च, किन्तु कामाः-शब्दादयः,शृङ्गारा देवानां ऐकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, यदाह-व्यवहारः पुनार्योरेन्योऽन्यं रक्तयो रतिप्रकृतिः शृङ्गारः (काव्यालं० 12/5) इति, मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदृष्टनष्टत्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात्, करुणो हि रसः शोकस्वभावः करुणःशोकप्रकृति(काव्यालं०१५/३) रिति वचनादिति, तिरश्चां बीभत्सा जुगुप्सास्पदत्वात्, बीभत्सरसो हि जुगुप्सात्मको, यदाह- भवति जुगुप्साप्रकृतिर्बीभत्सः (काव्यालं० 15/5) इति, नैरयिकाणां रौद्रा- दारुणा अत्यन्तमनिष्टत्वेन क्रोधोत्पादकत्वाद्, रौद्ररसो हि क्रोधरूपो, यत आह- रौद्रः क्रोधप्रकृति चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 356-357 सप्रभेदाहारादिसज्जातद्धेतवः, शृंगारकरुणबीभत्स-रौद्रा: कामाः // 492 //

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538