Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 493 // चतुर्थमध्ययनं द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 358 उदकोदध्युपमपुरुषचतुर्भङ्गयः८ (काव्यालं० 15/13) रिति / एते च कामास्तुच्छगम्भीरयोर्बाधकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह चत्तारि उदगा पं० तं०- उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे णाममेगे गंभीरोदए 1, एवामेव चत्तारि पुरिसजाया पं० तं०- उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे णाममेगे गंभीरहिदए 4,2, चत्तारि उदगा पं०तं०- उत्ताणेणाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी 4, 3, एवामेव चत्तारि पुरिसजाया पं० तं०- उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी 4, 4, चत्तारि उदही पं० तं०- उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही 4, 5, एवामेव चत्तारि पुरिसजाता पं० तं०- उत्ताणेणाममेगे उत्ताणहियए 4, 6, चत्तारि उदही पं० तं०- उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी 4,7, एवामेव चत्तारि पुरिसजाया पं० तं०- उत्ताणेणाममेगे उत्ताणोभासी ४,८॥सूत्रम् 358 // चत्तारी त्यादीनि व्यक्तानि च, किन्तु उदकानि- जलानि प्रज्ञप्तानि तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वादुदकं- जलम्, उत्ताणोदयेत्ति व्यस्तोऽयं निर्देशः प्राकृतशैलीवशात् समस्त इवावभासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति वाच्यम्, तस्य बहुवचनान्तत्वेनेहासम्बद्ध्यमानत्वात्, साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति / तथोत्तानं तथैव गम्भीरमुदकं-गडुलत्वादनुपलभ्यमानस्वरूपं तथा गम्भीरं- अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानोऽगम्भीरो बहिर्दर्शितमददैन्यादिजन्यविकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्वादित्येकोऽन्य उत्तानः कारणवशाद्दर्शितविकृतचेष्टत्वाद् गम्भीरहृदयस्तु स्वभावेनोत्तानहृदयविपरीतत्वात् तृतीयस्तुगम्भीरो दैन्यादिवत्त्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्यया 423 //
Loading... Page Navigation 1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538