Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 527
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 503 // चतुर्थमध्ययनं| चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 366-371 मित्रादि यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधारणसामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सङ्क्षिप्तं शीघ्रं निष्ठितं चेति, विदरो- नदीपुलिनादौ जलार्थो गर्तस्तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वाद्झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पंतथाऽपरापरमल्पमल्पं स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति / यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैतानि, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो- निरुद्धयोगाः सिद्धाश्चेति। अवेदका:- सिद्धादयः। चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शन तद्वन्तश्चतुरिन्द्रियादयोऽचक्षुः- स्पर्शनादि तदर्शनवन्त एकेन्द्रियादय इति / संयता:- सर्वविरता असंयता- अविरताः संयतासंयता- देशविरताः त्रयप्रतिषेधवन्तः सिद्धा इति / जीवाधिकाराज्जीवविशेषान् पुरुषभेदान् चतुःसूत्र्याऽऽह_चत्तारि पुरिसजाया पं० तं०- मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्ते नाममेगे मित्ते अमित्ते णाममेगे अमित्ते 1, चत्तारि पुरिसजाया पं० तं०- मित्ते णाममेगे मित्तरूवे चउभंगो 4, 2, चत्तारि पुरिसजाया पं०२०- मुत्ते णाममेगे मुत्ते मुत्ते णाममेगे अमुत्ते 4, 3, चत्तारि पुरिसजाया पं० तं०- मुत्ते णाममेगे मुत्तरूवे 4, 4 // सूत्रम् 366 // ___पंचिंदियतिरिक्खजोणिया चउगईया चउआगईया पं० तं०-पंचिंदियतिरिक्खजोणियापंचिंदियतिरिक्खजोणिएसुउववजमाणा णेरइएहितो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववजेज्जा, से चेवणं से पंचिंदियतिरिक्खजोणिएपंचिंदियतिरिक्खजोणियत्तं विप्पजहमाणे णेरइत्तत्ताए वा जाव देवत्ताते वा उवागच्छेज्जा, मणुस्सा चउगईआ चउआगतिता, एवं चेव पुरुषचतुर्भङ्गयः, तिर्येमनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशोत्पादकारणानि शरीर कारणानि। // 503 //

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538