Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 496 // चतुर्थमध्ययन चतुःस्थानम्, चतुर्थीद्देशकः सूत्रम् 359-360 तरकचतुर्भङ्गी, कुम्भोपम पुरुष चतुर्भङ्गायः एवं शेषौ 3 / पुरुषस्तु पूर्णो धनश्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तुतुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छो-धनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति 4 / तथा पूर्णो नीरादिना पुनः पूर्णं पुण्यं वा- पवित्रं रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं- हीनं रूपंआकारो यस्य स तुच्छरूपः, एवं शेषौ 5 / पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपोवा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति द्वितीयभङ्गे तुच्छरूपः कारणात्त्यक्तलिङ्गःसुसाधुरेवेति तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थों ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति 6 / तथा पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थ एकः- कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इत्यर्थः। तथा अपदलं-अपशदंद्रव्यं कारणभूतं मृत्तिकादियस्यासावपदलोऽवदलति वा-दीर्यत इत्यवदल आमपक्वतयाऽसार इत्यर्थस्तुच्छोऽप्येवमेवेति ७।पुरुषोधनश्रुतादिभिः पूर्णः प्रियार्थः कश्चित्प्रिय-ब्लू वचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति 8 / पूर्णोऽपि जलादेर्विष्यन्दते-श्रवति, इह तुच्छ:- तुच्छजलादिः स एव विष्यन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९।पुरुषस्तु पूर्णोऽप्येको विष्यन्दते- धनं ददाति श्रुतं वा अन्यो नेति तुच्छोऽपि- अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति 10 / तथा भिन्नः- स्फुटितो जर्जरितो- राजीयुक्तः परिश्रावी- दुष्पक्वत्वात् क्षरकोऽपरिश्रावी कठिनत्वादिति 11 / चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्त्या परिस्राविसूक्ष्मातिचारतया अपरिस्रावि निरतिचारतयेति, इह च पुरुषाधि- कारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति 12 / तथा मधुन:- क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृतं मध्वेव वा पिधानं- स्थगनं यस्य स मधुपिधान एवमन्ये त्रयः 13 / पुरुषसूत्रं स्वयमेव हिय य 496 //
Loading... Page Navigation 1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538