________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ चतुर्थमध्ययन चतुःस्थानम्, चतुथाद्दिशक: / सूत्रम् 347-352 मघा: करण्डकोपमया // 485 // वृक्ष-मत्स्यगोलक-पत्रकटापमा जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति 34, चर्ममयपक्षाः पक्षिणश्चर्मपक्षिणो- वल्गुलीप्रभृतय एवं लोमपक्षिणोहंसादयः समुद्कवत् पक्षी येषां ते समुद्गकपक्षिणः, समासान्त इन्, ते च बहिर्वीपसमुद्रेषु, एवं विततपक्षिणोऽपीति 35, क्षुद्रा- अधमा अनन्तरभवे सिद्ध्यभावात् प्राणा- उच्छ्रासादिमन्तः क्षुद्रप्राणाः संमूर्छन निर्वृत्ताः सम्मूर्छिमास्तिरश्चांसत्काल योनिर्येषांते तथा ततः पदत्रयस्य कर्मधारये सति सम्मूर्छिमपञ्चेन्द्रियतिर्यग्योनिका इतिभवति 36, निपतिता-नीडादवतरीताअवतरीतुंशक्तो नामैकः पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता-न परिव्रजितुं शक्तो बालत्वादित्येकः, एवमन्यः परिव्रजितुं ऽऽचार्याः, शक्तः पुष्टत्वान्न तु निपतितुंभीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति 37, निपतिता-भिक्षाचर्यायामवतरीता भोजनाधर्थित्वान्न तुपरिव्रजिता-परिभ्रमकोग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकोऽन्यः परिव्रजिता-परिभ्रमणशील आचार्यआश्रयान्निर्गतः सन् न तु निपतिता- भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ 38, निष्कृष्टो-निष्कर्षित- भिक्षु-पुरुषाः, स्तपसा कृशदेह इत्यर्थः, पुनर्निष्कृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति 39, एतद्भावनार्थमेवानन्तरं सूत्रं-निःकृष्टः पक्षि-क्षुद्रकृशशरीरतया तथा निःकृष्ट आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय इति, अथवा निःकृष्टस्तपसा कृशीकृतः पक्ष्युपमाः पूर्व पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयम्, द्वितीयं तु यथोक्तमेवेति 40, बुधो बुधत्वकार्यभूतसत्क्रियायोगात्, उक्तञ्चपठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः / सर्वे (ते)व्यसनिनो राजन्!, यः क्रियावान् स पण्डितः॥१॥ इति, पुनर्बुधः सविवेक चतुर्भङ्गयो मनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमनस्त्वाद्, अपरस्त्वबुधोऽसत्क्रियत्वाद् बुधो विवेकवच्चित्तत्वाच्चतुर्थ उभयनिषेधादिति 41, अनन्तरसूत्रेणैतदेव व्यक्तीक्रियते-बुधः सक्रियत्वाद्, बुधंहृदयं-मनो यस्यसबुधहृदयो विवेचकमनस्त्वात्, अथवा बुधः शास्त्रज्ञत्वात् बुधहृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः 42, आत्मानुकम्पक चतुष्पद प्राणाः, भिक्षवः, निष्कृष्ट बुधादि // 485 //