Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 507
________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 483 // सारतमत्वात् सुधर्मादिवदिति 17, सालोनामैकः सालाभिधानवृक्षजातियुक्तत्वात् सालस्यैव पर्याया-धर्मा बहलच्छायत्वसेव्यत्वादयो यस्य सशालपर्याय इत्येकः,शालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वाऽऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, एरण्डोनामैकस्तथैव एरण्डपर्यायोऽबहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः 18, आचार्यस्तुसाल इव सालो यथा हि सालोजातिमानेवमाचार्योऽपि यःसत्कुलः सद्गुरुकुलश्चस साल एवोच्यते तथा सालपर्यायः-सालधर्मा यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकस्तथा सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति 19, तथा सालस्तथैव साल एव परिवार:परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति 20, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिभिरुत्तमत्वात्सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात्, तथा एरण्डपरिवार एरण्डकल्पनिर्गुणसाधुपरिकरत्वाद् एवमेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थं सालदुमे त्यादि गाथाचतुष्कम्, व्यक्तं नवरं मङ्गुलं- असुन्दरं 21, अनुश्रोतसा चरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामी एवमन्ये त्रयः 22, एवं भिक्षाकः-साधुर्यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षतेसोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमो, यस्तूत्क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषु भिक्षतेस तृतीयः, क्षेत्रमध्ये चतुर्थो 23, मधुसित्थु-मदनंतस्य गोलो-वृत्तपिण्डो मधुसित्थगोल एवमन्येऽपि, नवरं जतु- लाक्षा दारुमृत्तिके प्रसिद्ध इति 24, यथैते गोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुदृढदृढतरदृढतमसत्त्वा भवन्ति ते मधुसित्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति 25, चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः | सूत्रम् 347-352 मेघाः , करण्डकोपमया5ऽचार्या:, वृक्ष-मत्स्यगोलक-पत्रकटोपमा आचार्यभिक्षु-पुरुषाः, चतुष्पदपक्षि-क्षुद्रप्राणा:, पक्ष्युपमाः भिक्षवः, निष्कृष्ट बुधादिचतुर्भङ्गयौ // 483 //

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538