Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 487
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 463 // लक्षण, उक्तञ्च- अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् / तदप्रसिद्धिसन्देहविपर्यासैस्तदाभता॥१॥(न्याया० 22) इति, प्रागुक्तश्च चतुर्थमध्ययनं हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयंतु साध्यं प्रत्यन्वयव्यतिरेकवान् तथाविधदृष्टान्तस्मृततद्भाव इति, सचैकलक्षणोऽपि चतुःस्थानम्, तृतीयोद्देशकः किञ्चिद्विशेषाच्चतुर्दा / तत्र जावए त्ति यापयति-वादिनः कालयापनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्ड सूत्रम् 338 दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयनीप्रेषणोपायेन विटसेवायांकालयापनांकृतवतीति यापकः,उक्तञ्च- उब्भामिया , ज्ञाताहरण तद्देशतद्दोषोय महिला जावगहेउम्मि उट्टलिंडाइं॥इति, इह वृद्घाख्यातं- प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा / पन्यासोपकालयापना भवति, ततोऽसौ नावगच्छति प्रकृतमिति, सचेदृशः सम्भाव्यते-सचेतना वायवोऽपरप्रेरणे सति तिर्यगनियत- नयहेतूनां त्वाभ्यां गतिमत्त्वाद् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वाद् वादिनः कालयापनां करोति, चातुर्विध्यम् (सदृष्टान्तम्) स्वरूपमस्यानवबुद्ध्यमानो हि परोन झगित्येवानैकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुंशक्नोति, अतो भवत्यस्माद्वादिनः कालयापनेति, अथवा योऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीतिं करोति अपिल तु कालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापको, यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतुर्नहि सत्त्वश्रवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्त्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहिसत्त्वं नामार्थक्रियाकारित्वमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गोऽर्थक्रियातु नित्यस्यैकरूपत्वान्न क्रमेण नापि योगपद्येन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्तमानं क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्यसाधने कालयापनाकारित्वाद् यापकः सत्त्वलक्षणो हेतुरिति / तथा स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा / परिव्राजकधूर्ते लोकमध्यभागे दत्तं बहुफलं भवति तञ्चाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति // 46

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538