Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 494
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 470 // कुतोऽपिगुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च-आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह भेया। ते कम्मजाइभेएण णेगहा चउव्विहविग्गप्पा॥१॥(विशेषाव०७९१)(वृश्चिकमंडुकोरगनराः) इति, जातित आशीविषा जात्याशीविषा-वृश्चिकादयः, केवइय त्ति किया विषयो- गोचरो विषस्येति गम्यते, प्रभुः- समर्थोऽर्द्धभरतस्य यत्प्रमाणंसातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा- प्रमाणं यस्याः साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीरं विषेणस्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां- विषरूपापन्नां विषपरिगतामिति क्वचित्पाठे तद्व्याप्तामित्यर्थः / विसट्टमाणिं विकसन्तीं विदलन्तीं कर्तुं विधातुं विषयः स- गोचरोऽसौ अथवा से तस्य वृश्चिकस्य, विषमेवार्थो विषार्थस्तद्धावस्तत्ता तस्या विषार्थताया-विषत्वस्य तस्यां वा नो चेव त्ति नैवेत्यर्थः सम्पत्त्या एवंविधबोन्दिसम्प्राप्तिद्वारेण करिसुत्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां त्रैकालिकत्वज्ञापनार्थः, समयक्षेत्रं- मनुष्यक्षेत्रम् / विषपरिणामो हि व्याधिरिति तदधिकाराव्याधिभेदानाह चउव्विहे वाही पं० २०-वातिते पित्तिते सिंभिते सन्निवातिते, चउव्विहा तिगिच्छा पं० तं०-विज्जो ओसधाई आउरे परिचारते १॥सूत्रम् 343 // चत्तारि तिगिच्छगा पं० तं०- आततिगिच्छते नाममेगे णो परतिगिच्छते१परितिगिच्छए नाममेगे 4, 2, चत्तारि पुरिसजाया पं० तं०- वणकरे णाममेगे नो वणपरिमासी वणपरिमासी नाममेगे णो वणकरे एगे वणकरेवि वणपरिमासीवि एगे णो वणकरे णो (c) आशी दंष्ट्रा तद्गतमहाविषा आशीविषा द्विविधभेदाः। ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः॥ 1 // चतुर्थमध्ययनं चतुःस्थानम्, चतुर्थोद्देशकः सूत्रम् 343-344 व्याधिचिकित्से, चिकित्सकचतुर्भङ्गी आत्मपरचिकित्सादिचतुर्भङ्गयः 8 // 470 //

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538