Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 477 // नव सप्तकास्त्रिषष्टिरुत्पत्तेस्तु चत्वार एवाद्या विकल्पास्तद्यथा-सत्त्व 1 मसत्त्वं सदसत्त्व 3 मवाच्यत्वं 4 चेति, त्रिषष्टिमध्ये चतुर्थमध्ययनं क्षिप्ताः सप्तषष्टिर्भवन्ति, विकल्पाभिलापश्चैवं-को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदा चतु:स्थानम्, दयोऽपि वाच्यास्तथा सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या चेति, चतुर्थोद्देशक: सूत्रम् 345 सत्त्वादिसप्तभङ्गयाश्चायमर्थः- स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं 1 पररूपमात्रापेक्षया त्वसत्त्वं 2 तथा एकस्य घटादि क्रियावाद्यादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुधनादेरसद्भावपर्यायेण समवसरणानि / वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वाद् वस्तुनः सदसत्त्वं 3 तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्द्धकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेव्यस्यावक्तव्यत्वं 4, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वाद् घटादिद्रव्यस्य सदवक्तव्यत्वमिति 5, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वाद-* परदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वं 6, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति 7, इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शितास्तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तस्तथाहि- अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायां-इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाभावा (आचा०टी०) दिति, एवमज्ञानिकानां सप्तषष्टिर्भवतीति / वैनयिकानांच द्वात्रिंशत्, // 477 //
Loading... Page Navigation 1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538