Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 500
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 476 // स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं- विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया ह्रस्वत्वदीर्घत्वे चतुर्थमध्ययनं | इव नित्यश्च कालवादिनः,उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनस्तृतीयो विकल्प आत्मवादिनः पुरुष एवेदं निचतुःस्थानम्, मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनो, नियतिश्च-पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजककींति पञ्चमः स्वभाव चतुर्थोद्देशकः सूत्रम् 345 वादिन, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः , परत इत्यनेनापि पश्चैवलभ्यन्ते, तत्र परत इत्यस्यायमर्थ- इह सर्वपदार्थानां क्रियावाद्यादिपररूपापेक्षः स्वरूपपरिच्छेदो यथा ह्रस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः,एवमेव चात्मनःस्तम्भकुम्भादीन्समीक्ष्य तद्व्यतिरिक्ते समवसरणानि। हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः,एवमनित्यत्वेनापि दशैव,एवं विंशतिर्जीवपदार्थेन लब्धाःअजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति / तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवञ्चेयं-पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौन स्तः, कालादीनांतु पञ्चानांषष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापो- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षडिकल्पास्तथा नास्ति जीव: परत: कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वापि षट्सु प्रत्येक द्वादश विकल्पाः, एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिकानामिति / अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व१मसत्त्वं 2 सदसत्त्वं 3 अवाच्यत्वं 4 सदवाच्यत्वं 5 असदवाच्यत्वं६ सदसदवाच्यत्व 7 मिति, तत एते / // 476 //

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538