SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 476 // स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चायं- विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया ह्रस्वत्वदीर्घत्वे चतुर्थमध्ययनं | इव नित्यश्च कालवादिनः,उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनस्तृतीयो विकल्प आत्मवादिनः पुरुष एवेदं निचतुःस्थानम्, मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनो, नियतिश्च-पदार्थानामवश्यन्तया यद्यथाभवने प्रयोजककींति पञ्चमः स्वभाव चतुर्थोद्देशकः सूत्रम् 345 वादिन, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः , परत इत्यनेनापि पश्चैवलभ्यन्ते, तत्र परत इत्यस्यायमर्थ- इह सर्वपदार्थानां क्रियावाद्यादिपररूपापेक्षः स्वरूपपरिच्छेदो यथा ह्रस्वत्वाद्यपेक्षो दीर्घत्वादिपरिच्छेदः,एवमेव चात्मनःस्तम्भकुम्भादीन्समीक्ष्य तद्व्यतिरिक्ते समवसरणानि। हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः,एवमनित्यत्वेनापि दशैव,एवं विंशतिर्जीवपदार्थेन लब्धाःअजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति / तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवञ्चेयं-पुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदौन स्तः, कालादीनांतु पञ्चानांषष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापो- नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षडिकल्पास्तथा नास्ति जीव: परत: कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वापि षट्सु प्रत्येक द्वादश विकल्पाः, एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पा नास्तिकानामिति / अज्ञानिकानां तु सप्तषष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व१मसत्त्वं 2 सदसत्त्वं 3 अवाच्यत्वं 4 सदवाच्यत्वं 5 असदवाच्यत्वं६ सदसदवाच्यत्व 7 मिति, तत एते / // 476 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy