________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 477 // नव सप्तकास्त्रिषष्टिरुत्पत्तेस्तु चत्वार एवाद्या विकल्पास्तद्यथा-सत्त्व 1 मसत्त्वं सदसत्त्व 3 मवाच्यत्वं 4 चेति, त्रिषष्टिमध्ये चतुर्थमध्ययनं क्षिप्ताः सप्तषष्टिर्भवन्ति, विकल्पाभिलापश्चैवं-को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदा चतु:स्थानम्, दयोऽपि वाच्यास्तथा सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या चेति, चतुर्थोद्देशक: सूत्रम् 345 सत्त्वादिसप्तभङ्गयाश्चायमर्थः- स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं 1 पररूपमात्रापेक्षया त्वसत्त्वं 2 तथा एकस्य घटादि क्रियावाद्यादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुधनादेरसद्भावपर्यायेण समवसरणानि / वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वाद् वस्तुनः सदसत्त्वं 3 तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्द्धकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादेव्यस्यावक्तव्यत्वं 4, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वाद् घटादिद्रव्यस्य सदवक्तव्यत्वमिति 5, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वाद-* परदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वं 6, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति 7, इह च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शितास्तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तस्तथाहि- अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायां-इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवाभावा (आचा०टी०) दिति, एवमज्ञानिकानां सप्तषष्टिर्भवतीति / वैनयिकानांच द्वात्रिंशत्, // 477 //