Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 462 // तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तं-तुज्झ पिया मज्झ पिउणो, धारेइ अणूणयं सयसहस्सं। जइ सुयपुव्वं दिज्जउ अह चतुर्थमध्ययनं नसुयं खोरयं देहि॥१॥(दशवै०नि०८६) इति, प्रतिनिभता चास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य चतु:स्थानम्, तृतीयोद्देशक: परस्य निग्रहाय तव पिता मम पितुर्धारयति लक्षमित्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति,अस्य सूत्रम् 338 चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्वमुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अनायं प्रयोगो-नास्त्यश्रुतपूर्व / ज्ञाताहरणकिञ्चित् श्लोकादि ममेत्येवमभिमानधनं ब्रूमो वयं- अस्ति तवाश्रुतपूर्वं वचनं तव पिता मम पितुर्धारयत्यनूनं शतसहस्रमिति तद्देशतद्दोषो पन्यासोपयथेति / तथा हेउ त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरिति, यथा केनापि कश्चित् पर्यनुयुक्तोऽहो / नयहेतूनां किंयवाः क्रीयन्ते त्वया?, स त्वाह- येन मुधैव न लभ्यन्ते इति, तथा कस्माद् ब्रह्मचर्यादिकष्टमनुष्ठीयते?, यस्मादकृततपसां चातुर्विध्यम् (सदृष्टान्तम्) नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः- कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह- यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह-भोयवग्राहिन्! किमिति त्वया यवा:क्रीयन्ते?,सत्वाह-येन मुधान लभ्यन्ते, साधोश्चायमभिप्रायो यथा-मुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा यवालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपिकिन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चिद् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति / अथ ज्ञातानन्तरं ज्ञातवद्धतोः साध्यसिद्ध्यङ्गत्वाद् तद्भेदान् हेऊ इत्यादिना सूत्रत्रयेणाह-व्यक्तं चैतद्, नवरं हिनोति गमयति ज्ञेयमिति हेतुरन्यथाऽनुपपत्ति (c) तव पिता मम पितुर्धारयत्यनूनं शतसहस्रम् / यदि श्रुतपूर्वं ददातु अथ न श्रुतं क्षौरकं देहि॥१॥
Loading... Page Navigation 1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538