Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ चतुर्थमध्ययन चतु:स्थानम्, तृतीयोद्देशकः // 460 // ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) श्रीस्थानाङ्गघना ते? ननु शफरवधे जालमश्नासि मत्स्यान्? ते मे मद्योपदंशान् पिबसि ननु? युतो वेश्यया यासि वेश्याम्? / दत्त्वारीणां गलेऽही क्व श्रीअभय नु तव रिपवो? येषु सन्धिं छिनधि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि॥१॥ इत्येवं प्रकृतसाध्यानुपयोगि वृत्तियुतम् भाग-१ स्वमतदूषणावहं वा यत्तद्दान्तिकेन सह साधाभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुतस्तत्साधाच्छब्दस्य नित्यत्वमस्तु?, अपि त्वनित्यत्वाद्घटस्य तत्साधाच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति साध्यानुपयोगीदमुदाहरणम्, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्यावस्तुता प्रतीयते, तथाहि-दीपस्यात्मनश्चसन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणसत्त्वाभावादन्त्यक्षणस्यावस्तुत्वमवस्तुत्वजनकत्वात् पूर्वक्षणस्यापितत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपिस्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्, एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकृत्वाद्घटवदिति वक्तव्यो सम्भ्रमादनित्यो घटः कृतकत्वाच्छब्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा:- पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासो। दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो॥१॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो इति अत्तउवन्नासंमि य तलायभेयंमि पिंगलो थवई। अणिमिसगेण्हणभिच्छुग दुरुवणीए उदाहरणं॥१॥ (दशवै०नि० 81-83) इति, उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च 0 प्रथममधर्मयुक्तं प्रतिलोम आत्मन उपन्यासः / दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः॥१॥ 0 प्रतिलोम्नि यथाऽभयः प्रद्योतं हरति अपहृतः सन् / / आत्मोपन्यासे च तडाकभेदे पिंगलः स्थपतिः / अनिमेषग्राहकभिक्षुर्दुरुपनीते उदाहरणम् // 1 // 8 // 460 //
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538