Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 482
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 458 // विनेया उपालम्भनीया यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी चतुर्थमध्ययनं स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरार्यचन्दनासमीपंगता तया चोपालब्धा-अयुक्तमिदंभवादृशी- चतु:स्थानम्, तृतीयोद्देशकः नामुत्तमकुलजातानामिति, तथा पृच्छा- प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा सूत्रम् 338 प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टस्तथाहि- किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं ज्ञाताहरणमहावीरं पप्रच्छ, तद्यथा- भदन्त! चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः क्वोत्पद्यन्ते?, भगवताऽभिहितं सप्तमनरकपृथिव्याम्, तद्देशतद्दोषो पन्यासोपततोऽसौ बभाण- अहं क्वोत्पत्स्ये?, स्वामिनोक्तं- षष्ठ्यां, स उवाच- अहं किं न सप्तम्यां?, स्वामिना जगदे- सप्तम्यां नयहेतूनां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ- किमहं न चक्रवर्ती?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे चातुर्विध्यम् (सदृष्टान्तम्) तव रत्ननिधयो न सन्ति, ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालिकयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति / तथा निस्सावयणे त्ति निश्रया वचनं निश्रावचनम्, अयमर्थ:- कमपि सुशिष्यमालम्ब्य यदन्यप्रबोधार्थं वचनं तन्निश्रावचनम् तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं, यथा असहनान् विनेयान् माईवसम्पन्नमन्यमालम्ब्य किञ्चिद् / ब्रूयाद्, गौतममाश्रित्य भगवानिवेति, तथाहि-किल गौतमंतापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्नकेवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम! चिरपरिचितोऽसि गौतम! मा त्वमधृतिं कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासितास्तदनुशासनार्थं द्रुमपत्रकाध्ययनंच प्रणिन्ये इति, उक्तंच-पुच्छाए कोणिए खलु निस्सावयणमि गोयमस्सामि (दशवै०नि० 78) इति ॥व्याख्यातंतद्देशोदाहरणम्, तद्दोषोहरणमथ व्याख्यायते, तच्च चतुर्द्धा, तत्र अहम्मजुत्तेत्ति यदुदाहरणं कस्यचिदर्थस्य 7 पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी। 145 8 //

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538