Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 457 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) निवेशनाद् गुणनिकाकाले तस्या देवताया अग्रत आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च- होति पड़प्पन्नविणासणमि गंधव्विया उदाहरणं। सीसोऽवि कत्थइ जई अज्झोवजेज तो गुरुणा॥१॥वारेयव्वो उवाएणं (दशवै०नि०६९-७०) इति, अथवा अकर्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते-कतैवात्मा कथश्चिन्मूर्त्तत्वाद्देवदत्तवदिति / व्याख्यातमाहरणम्, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति / अथाहरणतद्देशो व्याख्यायते- स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्तनेनोपबृंहणंसा विधेयेति यत्रोपदिश्यते साऽनुशास्तिर्यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचम्पागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च- आहरणं तद्देसे चउहा अणुसट्ठि तह उवालंभो। पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए॥१॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं। वेयावच्चाईसुवि एव जयंतेववूहेजा ॥२॥(दशवै०नि०७३-७४) इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनमुपालम्भो- भङ्गयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालम्भो यथा क्वचिदपराधवृत्तयो 0 भवति प्रत्युत्पन्नविनाशने गान्धर्विकोदाहरणम्। शिष्योऽपि कुत्रापि यदि अध्युपपद्येत तदा गुरुणा // 1 // उपायेन वारयितव्यः / (c) आहरणं तद्देशे चतुर्धा अनुशास्तिस्तथोपालम्भः। पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ // 1 // साधुकारपूर्वकं यथा साऽनुशिष्टा पौरजनेन / वैयावृत्त्यादिष्वपि एवं यतमानानप्युपबृहयेत् / / 2 / /
Loading... Page Navigation 1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538