SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 457 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) निवेशनाद् गुणनिकाकाले तस्या देवताया अग्रत आतोद्यनादव्याजेन राजापराधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यध्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च- होति पड़प्पन्नविणासणमि गंधव्विया उदाहरणं। सीसोऽवि कत्थइ जई अज्झोवजेज तो गुरुणा॥१॥वारेयव्वो उवाएणं (दशवै०नि०६९-७०) इति, अथवा अकर्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्पन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते-कतैवात्मा कथश्चिन्मूर्त्तत्वाद्देवदत्तवदिति / व्याख्यातमाहरणम्, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति / अथाहरणतद्देशो व्याख्यायते- स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्तनेनोपबृंहणंसा विधेयेति यत्रोपदिश्यते साऽनुशास्तिर्यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचम्पागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च- आहरणं तद्देसे चउहा अणुसट्ठि तह उवालंभो। पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्ठीए॥१॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं। वेयावच्चाईसुवि एव जयंतेववूहेजा ॥२॥(दशवै०नि०७३-७४) इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनमुपालम्भो- भङ्गयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालम्भो यथा क्वचिदपराधवृत्तयो 0 भवति प्रत्युत्पन्नविनाशने गान्धर्विकोदाहरणम्। शिष्योऽपि कुत्रापि यदि अध्युपपद्येत तदा गुरुणा // 1 // उपायेन वारयितव्यः / (c) आहरणं तद्देशे चतुर्धा अनुशास्तिस्तथोपालम्भः। पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ // 1 // साधुकारपूर्वकं यथा साऽनुशिष्टा पौरजनेन / वैयावृत्त्यादिष्वपि एवं यतमानानप्युपबृहयेत् / / 2 / /
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy