SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 456 // मिति पृच्छतो लोकस्य हिङ्गुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति, एतस्मात्किलाख्यानकादुक्तार्थः प्रतीयत चतुर्थमध्ययन इतीदं स्थापनाकर्मेति, तथा नित्यानित्यं वस्त्वित्यसङ्गतं जिनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्व्यपोहायोच्यते / चतुःस्थानम्, विरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधर्मोपेतो भवति, न च तृतीयोद्देशक: सूत्रम् 338 कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, ज्ञाताहरणएवञ्च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वेसति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपितु सर्वमनेकान्तात्मकमिति तद्देशतद्दोषो पन्यासोपविकल्पज्ञानेन स्वमतं प्रसाधितम्, अतो विकल्पज्ञानेन स्वमतस्थापनेन स्थापनाकर्मेति, अत्र नियुक्तिगाथा:-ठवणाकम्म नयहेतूनां एक्क(अभेदमित्यर्थः) दिट्ठतो तत्थ पुंडरीयं तु / अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाहरणं॥१॥(दशवै०नि०६७) इति, सव्यभिचारो चातुर्विध्यम् (सदृष्टान्तम्) वा हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थ यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च-सव्वभिचारं हेउं सहसा वोत्तुं / तमेव अन्नेहिं / उववूहइ सप्पसरं सामत्थं चऽप्पणो णाउं॥१॥ (दशवै०नि०६८) ति, तद्यथा- अनित्यः शब्दः कृतकत्वाद्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिमतत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वाद्घटपटादिवद्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापितमिति भवत्ययं स्थापनाकर्मेति, पडुप्पन्नविणासि त्ति प्रत्युत्पन्नस्य- तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवता (r) स्थापनाकर्म अभिन्नं दृष्टान्तस्तत्र पुंडरीकं तु / अथवापि संज्ञाच्छादकहिङ्गशिवदेवकृतमुदाहरणम्॥ 1 // ॐ सव्यभिचारं हेतुं सहसोक्त्वा तमेवान्यैरुपबृंहयति सप्रसङ्गं सामर्थ्य चात्मनो ज्ञात्वा // 1 // 0 भिहित० (मु०)। // 456 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy