Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ |श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 455 // ज्ञाताहरण आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः चतुर्थमध्ययनं | पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ, तत ईर्ष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुश्चौरचाण्डालस्तु / चतुःस्थानम्, तृतीयोद्देशक: चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इतिकृत्वातंबन्धयामासेति, अत्रापिगाथे- एमेव चउविगप्पो होइ उवाओऽवि सूत्रम् 338 तत्थ दव्वम्मि। धाउव्वाओ पढमो णंगलकुलिएहिं खेतं तु॥१॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ। चोरस्स कए तद्देशतद्दोषोणट्टि य वडकुमारि परिकहिंसु // 2 // (दशवै०नि०६१-६२) इति / ठवणाकम्मे त्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म पन्यासोपकरणं स्थापनाकर्म येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकर्मेति भावस्तच्च द्वितीयाङ्गे द्वितीयश्रुत-2 नयहेतूनां स्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यम्, तत्र ह्युक्तमस्ति-काचित्पुष्करिणी कईमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थ चातुर्विध्यम् (सदृष्टान्तम्) चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकईममार्गः प्रवेष्टुमारब्धास्ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकईम एवामोघवचनतया तदुद्धतवानिति ज्ञातम्, उपनयश्चायमत्र-कर्दमस्थानीया विषयाः पुण्डरीकंराजादिर्भव्यपुरुषश्चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषः साधुरमोघवचनं धर्मदेशना पुष्करिणी संसारस्तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीथिकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापनाकर्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म,किल मालाकारेण केनापि राजमार्गपुरीषोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिद 0 एवमेव चतुर्विकल्पो भवत्युपायोऽपि तत्र द्रव्ये / धातुवादः प्रथमो लालकुलिकैः क्षेत्रं तु // 1 // कालोऽपि नालिकादिभिर्भवति भावे पण्डितोऽभयः / चौरस्य कृते नृत्ये वृद्धकुमारीकथां परिचख्यौ॥२॥ // 455
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538