Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 465 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् | (सदृष्टान्तम्) इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति- गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः- प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात् तत्र पच्चक्खे त्ति अश्नाति अश्नुतेव्याप्नोत्यानित्यक्ष- आत्मा तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य- अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् / प्रत्यक्षमितरद् ज्ञेयं, परोक्षं ग्रहणेक्षया॥१॥(न्याया० 4) ग्रहणापेक्षयेति भावः / अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पश्चान्मानं- ज्ञानमनुमानम्, एतल्लक्षणमिदं-साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् / अनुमानं तदभ्रान्तं, प्रमाणत्वात् समक्षवद् // 1 // (न्याया० 5) इति, एतच्चसाध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपम्यमनेन गवयेन सदृशोऽसौगौरिति सादृश्यप्रतिपत्तिरूपम्, उक्तञ्च-गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा। भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम्॥१॥ तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्त्तते / पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा ॥२॥इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमआप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च- दृष्टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः / तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् // 1 // आप्तोपज्ञमनुल्लङ्घयमदृष्टेष्टविरोधकम् / तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् // 2 // (न्याया० 8-9) इति / इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधश्चतुर्भङ्गीरूपत्वात्, तत्र अस्ति- विद्यते तदिति- लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सोऽग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानम्, तथा अस्ति तदग्न्यादिकं वस्त्वतो // 465
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538