________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 465 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 338 ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् | (सदृष्टान्तम्) इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति- गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः- प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात् तत्र पच्चक्खे त्ति अश्नाति अश्नुतेव्याप्नोत्यानित्यक्ष- आत्मा तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य- अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् / प्रत्यक्षमितरद् ज्ञेयं, परोक्षं ग्रहणेक्षया॥१॥(न्याया० 4) ग्रहणापेक्षयेति भावः / अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पश्चान्मानं- ज्ञानमनुमानम्, एतल्लक्षणमिदं-साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् / अनुमानं तदभ्रान्तं, प्रमाणत्वात् समक्षवद् // 1 // (न्याया० 5) इति, एतच्चसाध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपम्यमनेन गवयेन सदृशोऽसौगौरिति सादृश्यप्रतिपत्तिरूपम्, उक्तञ्च-गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा। भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम्॥१॥ तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्त्तते / पशुनैतेन तुल्योऽसौ, गोपिण्ड इति सोपमा ॥२॥इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति, आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमआप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तञ्च- दृष्टेष्टाव्याहताद् वाक्यात्परमार्थाभिधायिनः / तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् // 1 // आप्तोपज्ञमनुल्लङ्घयमदृष्टेष्टविरोधकम् / तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् // 2 // (न्याया० 8-9) इति / इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधश्चतुर्भङ्गीरूपत्वात्, तत्र अस्ति- विद्यते तदिति- लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सोऽग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानम्, तथा अस्ति तदग्न्यादिकं वस्त्वतो // 465