SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 466 // चतुर्थमध्ययन चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 339 परिकर्मादिसंख्या, अधस्तिर्यगू लोकेष्वन्धकारोद्योतकराः। नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्वक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निर्महानस इवेत्यादिकं स्वभावानुमान कार्यानुमानञ्च प्रथमभङ्गकेन सूचितं 1, तथा अग्नेरस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानुमानञ्च, तथाऽग्नेधूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणविरुद्धोपलम्भानुमानं कारणविरुद्धकार्योपलम्भानुमानं च द्वितीयभङ्गकेनाभिहितं 2, तथा छत्रादेरग्नेर्वा नास्तित्वादस्ति क्वचित्कालादिविशेषे आतपः शीतस्पर्शो वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपलम्भानुमानञ्च तृतीयभङ्गकेनोपात्तं 3, तथा दर्शनसामग्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशवदित्यादि स्वभावानुपलब्ध्यनुमानं तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः प्रदेशान्तरवदित्यादि कार्यानुपलब्ध्यनुमानम्, तथा वृक्षनास्तित्वात् शिशपा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्ने स्तित्वाद्धमो नास्तीत्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गकेनावरुद्धमिति, न च वाच्यं न जैनप्रक्रियेयम्, सर्वत्र / जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति 4 / अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह चउव्विहे संखाणे पं० तं०- पडिकम्मं 1 ववहारे 2 रज्जू 3 रासी 4 / अहोलोगे णं चत्तारि अंधगारं करेंति, तं०- नरगाणेरड्या पावाईकम्माइं असुभा पोग्गला 1, तिरियलोगेणं चत्तारि उज्जोतं करेंति, तं०-चंदा सूरा मणि जोती 2, उड्डलोगेणं चत्तारि उज्जोतं 8||466 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy