________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 464 // सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो चतुर्थमध्ययनं लोकमध्यभागो न भवतीति पक्षं स्थापितवानिति स्थापको हेतुरुक्तञ्च- लोगस्स मज्झजाणण थावगहेऊ उदाहरणं (दशवै०नि० चतुःस्थानम्, तृतीयोद्देशकः 88) इति, स चायं-अग्निरत्र धूमात्, तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैव प्रतीयमानत्वादिति, अनयोश्च प्रतीतव्याप्तिक सूत्रम् 338 तया अकालक्षेपेण साध्यस्थापनात् स्थापकत्वमिति / तथा व्यंसयति- परं व्यामोहयति शकटतित्तिरीग्राहकधूर्त्तवद् यः सब ज्ञाताहरण तद्देशतद्दोषोव्यंसक इति / तथाहि-कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते?, पन्यासोपसच किलायं शकटस्य सत्कां तित्तिरी याचत इत्यभिप्रायादवोचत् तर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालोडित- नयहेतूनां सक्तुभिरित्यर्थः, ततो धूर्तः साक्षिण आहृत्य सतित्तिरीकं शकटं जग्राह, उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति चातुर्विध्यम् (सदृष्टान्तम्) दत्तत्वात्, मया तु शकटसहिता तित्तिरी शकटतित्तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति, अत्रोक्तं- सा सगडतित्तिरी वंसगंमि हेडेमि होइ णायव्वा ॥इति, स चैवम्- अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीवघटयोरस्तित्वमविशेषेण वर्त्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यसको हेतुर्घटशब्दविषयघटस्वरूपवद्, अथास्तित्वं जीवादौनवर्त्तते ततो जीवाद्यभावः स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति, तथा लूसए त्ति लूषयति- मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिको, यथा- धूर्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्त तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्कूनालोडयेति, ताञ्च तथा कुर्वन्तीं तद्भार्यां गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि- मदीयेयं तर्पणमिति सक्तूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, स चायं यदि जीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्वप्यस्तित्ववृत्तेरविशेषात्, न चैवमिति, // 464 //