________________ चतुर्थमध्ययन चतु:स्थानम्, तृतीयोद्देशकः // 460 // ज्ञाताहरणतद्देशतद्दोषोपन्यासोपनयहेतूनां चातुर्विध्यम् (सदृष्टान्तम्) श्रीस्थानाङ्गघना ते? ननु शफरवधे जालमश्नासि मत्स्यान्? ते मे मद्योपदंशान् पिबसि ननु? युतो वेश्यया यासि वेश्याम्? / दत्त्वारीणां गलेऽही क्व श्रीअभय नु तव रिपवो? येषु सन्धिं छिनधि, चौरस्त्वं? द्यूतहेतोः कितव इति कथं? येन दासीसुतोऽस्मि॥१॥ इत्येवं प्रकृतसाध्यानुपयोगि वृत्तियुतम् भाग-१ स्वमतदूषणावहं वा यत्तद्दान्तिकेन सह साधाभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुतस्तत्साधाच्छब्दस्य नित्यत्वमस्तु?, अपि त्वनित्यत्वाद्घटस्य तत्साधाच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति साध्यानुपयोगीदमुदाहरणम्, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्यावस्तुता प्रतीयते, तथाहि-दीपस्यात्मनश्चसन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षणसत्त्वाभावादन्त्यक्षणस्यावस्तुत्वमवस्तुत्वजनकत्वात् पूर्वक्षणस्यापितत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपिस्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्, एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकृत्वाद्घटवदिति वक्तव्यो सम्भ्रमादनित्यो घटः कृतकत्वाच्छब्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा:- पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवन्नासो। दुरुवणियं च चउत्थं अहम्मजुत्तमि नलदामो॥१॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो इति अत्तउवन्नासंमि य तलायभेयंमि पिंगलो थवई। अणिमिसगेण्हणभिच्छुग दुरुवणीए उदाहरणं॥१॥ (दशवै०नि० 81-83) इति, उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च 0 प्रथममधर्मयुक्तं प्रतिलोम आत्मन उपन्यासः / दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः॥१॥ 0 प्रतिलोम्नि यथाऽभयः प्रद्योतं हरति अपहृतः सन् / / आत्मोपन्यासे च तडाकभेदे पिंगलः स्थपतिः / अनिमेषग्राहकभिक्षुर्दुरुपनीते उदाहरणम् // 1 // 8 // 460 //