________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 461 // चतुर्द्धा, तत्र तव्वत्थुए त्ति तदेव- परोपन्यस्तसाधनं वस्त्विति- उत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये सतद्वस्तुकोऽथवा तदेव- चतुर्थमध्ययनं परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह-समुद्रतटे चतुःस्थानम्, तृतीयोद्देशकः महान् वृक्षोऽस्ति, तच्छाखा जलस्थलयोरुपरि स्थितास्तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति सूत्रम् 338 यानि च स्थले निपतन्ति तानि स्थलचरा इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत-ज्ञाताहरण तद्देशतद्दोषोयानि पुनर्मध्ये तेषां का वार्तेत्येतदुपपत्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातव्यं चास्य ज्ञाननिमित्तत्वाद्, अथवा पन्यासोपयथारूढमेव ज्ञातमेतत्, तथा हि एवं प्रयोगोऽस्य- जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थल- नयहेतूनां मध्यपतितपत्रवत्, तन्मध्यपतितपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, न चोभयरूपाः सत्त्वा चातुर्विध्यम् (सदृष्टान्तम्) अभ्युपगता इति, अथवा नित्यो जीवोऽमूर्त्तत्वादाकाशवदित्युक्ते आह- अनित्य एवास्तु अमूर्त्तत्वात् कर्मवदिति / तथा तयन्नवत्थुए त्ति तस्मात्- परोपन्यस्ता वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह-यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तोऽथवा यथारूढमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा- जलाद्याश्रितत्वाद् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषाद्, न च तानि तथाऽभ्युपगम्यन्त इति जलादि- 461 // गतानामपि जलचरत्वाद्यसम्भव इति, तथा पडिनिभेत्ति यत्रोपन्यासोपनयेवादिनोपन्यस्तवस्तुनःसदृशं वस्तूत्तरदानायोपनीयते / स प्रतिनिभोयथा कोऽपि प्रतिजानीते यदुत-योमामपूर्वं श्रावयति तस्मै लक्षमूल्यमिदंकटोरकं ददामीति,सच श्रावितोऽपि