Book Title: Sthanang Sutram Part 01
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 447 // कायोत्सर्गाद्यर्थ आश्रयस्तत्र प्रतिमाः स्थानप्रतिमास्तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा- अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र चाकुञ्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समाश्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपिन विधत्ते / अनन्तरं शरीरचेष्टानिरोध उक्त इति शरीरप्रस्तावादिदं सूत्रद्वयं- चत्तारी त्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि- व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टान्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिकं जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः। शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउही'त्यादि, गतार्थम्, केवलं 'फुडे'त्ति स्पृष्टः- प्रतिप्रदेशं व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोके उत्पादाबादरतैजसानां तु सर्वलोकादुद्वृत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोत्पद्यमानानां द्वयोरूर्द्धकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्टत्वाच्च चउहिं बादरकाएहिं इत्युक्तम्, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुद्वृत्त्य पृथिव्यादि घनोदध्यादि घनवातवलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकंस्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्खयेयभागमेव स्पृशन्तीति, उक्तञ्च प्रज्ञापनायां- एत्थ णं बादरपुढविकाइयाणं पज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेज्जइभागे, तथा बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए, एवमब्वायुOअत्र बादरपृथ्वीकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरपृथ्वीकायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि 8 चतुर्थमध्ययनं चतु:स्थानम्, तृतीयोद्देशकः सूत्रम् 330-334 ह्रीसत्त्वादिपुरुषाः शय्यावस्त्र-पात्रस्थानप्रतिमाः, जीवस्पृष्टकार्मणोन्मिश्रशरीराणि, लोकास्तिकायबादरा: समप्रदेशाः, ग्रहाः // 447 //
Loading... Page Navigation 1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538