________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 420 // चरियं मह एरिसं अउन्नस्स। एयं आलप्पालं अव्वो दूरं विसंवयइ ॥१॥हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं / जे किल लद्धविवेया विचेट्ठिमो बालबालव्व॥२॥त्ति, यत्रावसरेशीलानि-समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमWणादीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि-सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणव्रतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगव्रतलक्षणे विरमणानि- अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्यानानि नमस्कारसहितादीनि पोषधः- पर्वदिनमष्टम्यादि तत्रोपवसनं- अभक्तार्थः पोषधोपवासः, एतेषांद्वन्द्वस्तान् प्रतिपद्यते- अभ्युपगच्छति तत्रापि च से तस्यैक आश्वासः प्रज्ञप्तो 1, यत्रापि च सामायिकं-सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिव्रतगृहीतस्य दिक्परिमाणस्य विभागे अवकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं सङ्केपकरणलक्षणं सर्वव्रतसङ्केपकरणलक्षणंवा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापिच तस्यैक आश्वासःप्रज्ञप्त इति 2, उद्दिष्टेत्यमावास्या परिपूर्णमिति- अहोरात्रं यावद् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति 3, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना- तपोविशेषः सा चेति अपश्चिममारणान्तिकीसंलेखना तस्या जूसण त्ति जोषणा सेवनालक्षणो यो धर्मस्तया जूसिय त्ति जुष्टः सेवितोऽथवा क्षपितः- क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन - ममापुण्यस्येदृशं चरित्रम् / एवमालप्यालमाश्चर्यं दूरं विसंवदति // 1 // हतमस्माकं ज्ञानं हतमस्माकं मानुष्यमाहात्म्यम् / यत्किल लब्धविवेका अपि लघुबाला इव चेष्टामः // 2 // चतुर्थमध्ययनं चतुःस्थानम्, तृतीयोद्देशकः सूत्रम् 313-314 पत्र-पुष्पफल-च्छायोपगवृक्षवत् पुरुषाः, भारवाहकाश्वासवत् श्रमणोपासकाश्वासाः // 420 // 18888888888888888888