Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 171
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsager a nmandir लोभात्तुनधार्यम् । लोभान्नाधरयेच्छंभोर्निर्माल्यंनचभक्षयेत् । नस्पृशेदपिपादेनलंघयेन्नापिनारदेतिपाद्मात् । अग्निपुराणे-बाणलिंगेचले लौहेसिद्धलिंगेस्वयंभुवि । प्रतिमासुचसर्वासुनदोषोमाल्यधारणे । शालग्रामसंसर्गेतुनदोषः । अग्राह्यंशिवनिर्माल्यपत्रंपुष्पंफलंजलम् । शालग्रा मस्यसंसर्गात्सर्वयातिपवित्रतामितिस्कांदवाराहोक्तः । अस्यार्थ:-पंचायतनपूजायांकांडानुसमयपदार्थानुसमयौविहायसहैवपंचानांपू ISI| जनेशालग्रामसंसर्गाच्छिवनैवेद्यभक्ष्यम् । यदाशिवेनैवेद्यपृथक्तदानभक्ष्यमिति ॥ * अत्रपुरुषार्थप्रबोधेचतुर्धाव्यवस्थोक्ता-द्विजानानिषेधोद्विजानांविधिरित्याद्या । वैदिकतांत्रिकविषयेत्यन्या । दीक्षितादीक्षित विषयेतितृतीया । ततःसिद्धांतकृतः-ज्योतिर्लिंगंविनालिंगयःपूजयतिमानवः । तस्यनैवेद्यनिर्माल्यभक्षणात्तप्तकृच्छ्रकम् । शालग्रामोद्भवेलिंगेवा णलिंगेस्वयंभुवि । रसलिंगेतथाचसुरसिद्धप्रतिष्ठिते। हृदयेचंद्रकांतेचवर्णरूप्यादिनिर्मिते । शिवदीक्षावताभक्तेनेदंभक्ष्यमितीर्यते । इतिभवि प्योक्तेः। तथा-बाणलिंगेस्वयंभूतेचंद्रकांतदृदिस्थिते । चांद्रायणसमंज्ञेयंशंभोनैवेद्यभक्षणम् । यत्रचंडाधिकारोस्तिनभोक्तव्यंचमानवैः । चंडाधिकारोनोयत्रभोक्तव्यंतत्रभक्तितइतितत्रैवोक्तेः।-निवेदितंयद्देवेशेतच्छेपंचात्मशुद्धये । श्रद्दधानोनलोभेनचंडायद्यनिवेदितमितिवायपु राणाच ।-येवीरभद्रशपिताःशिवभक्तिपराङ्मुखाः। शंभोरन्यत्रदेवेषुयेभक्तायेनदीक्षिताः । तेषामनहमीशस्यतत्प्रसादचतुष्टयमितिशिवपुरा णाचसामान्यविधिरेतत्परएव । एतैर्विशेषवाक्यैरुपसंहारात्, अन्यथानिषेधानांनिरवकाशत्वापत्तेः । यत्तुशिवनिर्माल्यस्पर्शप्रायश्चित्तं तदेतदन्यपरम् । यत्तुशिवनैवेद्यभक्षणादेःकाम्यत्वात्तत्सकलशिवस्वभक्षणादिनिषेधवाधकत्वमिति तत्रपूर्वोक्तव्यवस्थासंभवात् फलरहितवि घिसद्भावाचेतिश्रीभट्टनारायणचरणाः । सिद्धांतशेखरे-धराहिरण्यगोरत्नताम्ररौप्यांशुकादिकान् । विहायशेषनिर्माल्यंचंडे शायनिवेदयेत् । अन्यदन्नादिपानीयंतांबूलंगंधपुष्पकम् । दद्याचंडायनिर्माल्यंशिवभुक्तंतुसर्वशः । आचार्य शिवचंडानामाज्ञामंगेतुलक्षकम् ।। For Private And Personal

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241