Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagan Syanmandir
कृत्वाब्राह्मणः पुनरापिबेत् । त्रिरात्रंतुव्रतं कुर्याद्वामहस्तेनवापुनः । इदंभोजनकालेएव । अन्यत्रास्य प्रायश्चित्तोक्तेः । कौमें नवाम | हस्तेनोद्धृत्यपिबेद्वक्रेणवैजलम् । वामहस्ते न केवलेनेत्यर्थः । एकहस्तेनेत्यस्य वामहस्तेनोपसंहारइतिकश्चित् । तन्न । पुनरेकहस्तनिषेधात् । अतः सव्येननपिबेत् । एकहस्तेनासव्येनापिनपिचेदित्यर्थः । ननुभोजनेपात्र धारणेसव्यहस्तस्यव्यापृत त्वाद्दक्षिणहस्तस्य चोच्छिष्टत्वात्कथंजल पानमितिचेत्-दक्षिणेनपात्रं धृत्वावामेनद्रोणादौजलंकृत्वावामेनपात्रं धृत्वा दक्षिणेन जलपानसंभवात् । एकहस्तनिषेधोभोजनभिन्नकालविषयः । नचैकहस्तनिषेधाद्धस्तद्वयप्राप्तौजलं पिबेन्नांजलिनेत्यादिवाक्यविरोधः । तस्यानुद्धृतजलपानपरत्वात् । एतस्यपात्रादिद्वाराजलपानपरत्वात् हस्त द्वयप्राप्तावपिसव्येनान्वारंभणात् आचमनादौ तथैवदर्शनादितिचंद्रिका ।
भोजने ग्रासप्रमाणम् । अपरार्केवसिष्ठः – अष्टौ ग्रासामुनेर्भैक्षंषोडशारण्यवासिनः । द्वात्रिंशतं गृहस्थस्य अमितंत्रह्मचारिणः । वक्रप्रमाणपिंडंचग्रसेदेकैकशः पुनः । वक्राधिकस्तुयः पिंड आत्मोच्छिष्टः सउच्यते । पिंडावशिष्टमन्नंचदंतनिःसृतमेवच । अभोज्यं तद्विजानी याद्भुक्त्वाचांद्रायणंचरेत् । आदित्यपुराणे - नोच्छिष्टोग्राहयेदाज्यं जग्धशेषंनसंत्यजेत् । शूद्रभुक्तावशिष्टंतुनाद्याद्भांड स्थितं त्वपि । भारतेदानधर्मे – समानमेकपात्रेतुर्भुजेन्नान्नंकदाचन ।
भार्ययासह भुक्तिनिषेधः । मनुः – नाश्रीयाद्भार्ययासाधनैनामीक्षेतवाश्वतीम् । नभार्यादर्शनेऽश्रीयादिति । वसिष्ठः| भार्ययासहनाश्रीयादवीर्य वदपत्यं भवतीति । इदंचासवर्णाविषयम् । तथाचांगिराः - ब्राह्मण्यासह योश्रीयादुच्छिष्टंवाकदाचन । न तत्रदोषंमन्यते सर्वएवमनीषिणः । उच्छिष्टमितरस्त्रीणांयोऽश्नीयाद्ब्राह्मणःक्वचित् । प्रायश्चित्तीस विज्ञेयः संकीर्णो भूद चेतनः । ब्राह्मणीपदं भर्तृ सवर्णोपलक्षणम् । अतएवाग्रे त्राह्मणग्रहणम् । तेनक्षत्रियादिरप्य सवर्णयासह नाश्नीयादित्यर्थइति पृथ्वीचंद्रः । ब्राह्मेपि - ब्राह्मण्या १ मृदुचेतनः ।
For Private And Personal

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241