Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 195
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa तेतृप्तिमिदंमयान्नंतेभ्यो विसृष्ट॑सुखिनोभवंतु । येषांनमातानपितानबंधुर्नचान्नसिद्धिर्नतथान्यदस्ति । तस्मादहंमूतनिकाय मूतमन्नंप्रयच्छामिभ वायतेषाम् । चतुर्दशोभूतगणोपियस्तुतत्रस्थितायेखिलभूतसंघाः । तृत्यर्थमन्नंहिमयाविसृष्टंतेषामिदंतेमुदिताभवंतु । इत्युच्चार्यनरोदद्यादन्नं श्रद्धासमन्वितः । भुविभूतोपकारायगृहीसर्वाश्रयोयतः । श्वचांडालविहंगानांभुविदद्यात्ततोनरः । येचान्येपतिताः केचिदपुत्रा भुविमानवाः । इदमेवबलिदानंशुद्रस्येत्युक्तं शूद्राचारशिरोमणौस्मृतिकौमुद्यांच । बलिदेशसंस्कारः । आपस्तंबः - बलीनांदेश स्यसंस्कारोहस्तेनपरिमृज्यावोक्ष्यन्युप्यचेति । छंदोग परिशिष्टे—नावरार्ध्याबलयों भवंतिमहामार्जारश्रवणप्रमाणात् । एकत्रचेदविकृष्टाभवंतिइतरेतरमसंसक्ताश्चेदिति । नानास्थानेवलिदानासंभवे अविकृष्टा अव्यवहिताः । शौनकः --- बदरीफलमात्रान्नमंगुल्यत्रैर्विनिक्षिपेत् । बलिहरणेविशेषोवहृचपरिशिष्टे - अथगृहबलिदेवतानां कीर्तयिष्यामोयत्र यत्रवसंतिताः । द्वारेपितामहंविद्यात्प्रक्रीळेतुउमापतिम् । आग्नेय्यामित्यदर्शनात् द्वारे प्राच्याम् । आग्नेय्यांबलभद्रंचयमंविष्णुंचदक्षिणे । नैर्ऋत्यांस्कंदवरुणौसोमंसूर्यचपश्चिमे । वायव्यामश्विनौ । वसवः सौम्यां । रुद्रईशान्यां । नैर्ऋत्यांस्कंदं । वरुणसोमौपश्चिमे । सूर्योवायव्यामि त्यर्थः । नक्षत्रें दुग्रहाः पूर्वीदिशमाश्रिताः । गृहमध्येब्रह्माणंप्रतिष्ठाप्यऋद्धिर्वृद्धिः श्रीः कीर्तिरिति प्रदक्षिणंत्रह्मणः प्रागादिदिवित्यर्थः । निष्क्रम्य गृहनिवेशनात्प्राङ्मुखः प्रोक्ष्यबलीन्निनयेत् । निवेशनंमुख्यगृहम् । ऐंद्रवारुणवायव्यायाम्यावैनैर्ऋतास्तथा । तेकाकाः प्रतिगृह्णतु भूम्यांपिंडं मयार्पितम् । इतिकाकबलिः । द्वौश्वानौश्यामशबलौवैवखतकुलोद्भवैौ । ताभ्यांपिंडंप्रयच्छामिस्यातामेतावहिंसकावितिश्वबलिः । येमू ताः प्रचरंतिदिवानक्तंबलिमिच्छंतोविदुरस्यप्रेष्ठाः । तेभ्योबलिंपुष्टिकामोददामिमयिपुष्टिंपुष्टिपतिर्ददात्विति भूतबलिः । प्रक्षाल्यपाणिपादौ गृहंप्रविश्यजपेत् शांतापृथिवीशिवमंतरिक्षंद्यौर्नोदेव्यभयंनोअस्तु । शिवादिशः प्रदिशउद्दिशोनआपोविद्युतः परिपांतुसर्वतः शांतिः ३ ॥ For Private And Personal

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241