Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
in Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
चंद्रोदये-अंगधारणयोग्यमंगेनिधायाचामेत् तदयोग्यंस्पृष्ट्वा । यद्वाभक्ष्येतरद्रव्यंमूमावनिधायाचम्यशुचिर्भवेत् । भक्ष्यभूमानिधाया चामेत् । मार्कंडेयः-पक्वान्नेनगृहीतेनमूत्रोच्चारंकरोतियः । अनिधायैवतद्रव्यमंगेकृत्वासमाश्रितम् । शौचंकृत्वायथान्यायमपःस्पृश्ययथा विधि । अन्नमभ्युक्षयेचैवउद्धृत्यार्कप्रदर्शयेत् । त्यक्त्वाग्रासमथैतस्माच्छेषंशुद्धिमवाप्नुयात् । द्रव्यस्यैवसाक्षादुच्छिष्टस्पर्शेत्यागइतिचंद्रिका । स्मृत्यर्थसारे-परिवेषणंकुर्वन्मत्रोच्छिष्ट श्वेदन्नादिनिधायशौचाचमनेकृत्वान्नादिप्रोक्ष्याग्निमर्कवासंस्पृश्यपरिविष्यादिति ।
आपोशनबलिप्राणाहुत्यादि । मार्कडेयः-अन्नंदृष्ट्वाप्रणम्यादौपांजलिःकथयेत्ततः । अस्माकंनित्यमस्त्वेतदितिभक्त्याथवंदयेत् ।। आपस्तंबः-भाषांकासंक्षवथुमित्यभिमुखोन्नंवर्जयेदिति । भाषांशब्दोचारणम् । याज्ञवल्क्या -अपोशानेनोपरिष्टादधस्तादश्नतातथा । अनग्नममृतंचैवकार्यमन्नंद्विजन्मना । अत्रयद्यपि-अद्यतेत्तिचभूतानितस्मादन्नंतदुच्यतइतिश्रुतौसर्वमविशेषेणान्नवेनप्रतीयते तथापिजला दावपितदापत्तेः । भिःसास्त्रीभक्तमधोन्नमितिकोशादन्नमोदनः । अतएव-अन्नाश्रितानिपापानीत्यत्राप्योदनवर्जनम् । तेनभक्तएवापोशनं | नान्यत्रेतिकेचित् । अन्येतु - सस्संक्षेत्रगतंप्राहुःसतुषधान्यमुच्यते । आमंवितुषमित्युक्तंखिन्नमन्नमुदाहृतमितितिथितत्वेवसिष्ठोक्तेः खिन्नमात्रेआपोशनम् । नचैवंगुडादावपितदापत्तिः । अन्नेनव्यंजनमित्यादिषुत्रीह्यादिविकारएवानपदप्रयोगात् गुडादेश्वसरसत्वात् अतोगुडादौनापोशनम् । मदनरत्नेमाधवीयेचकौर्मे-महाव्याहृतिभिस्त्वनपरिषिच्योदकेनतु । अमृतोपस्तरणमसीत्यपोशानक्रियांचरेत् । मदनपारिजातेतु-व्याहृतिभिर्गायत्र्याचान्नमभिमंत्र्याभ्युक्ष्यपरिषिच्य धर्मराजादिबलीन्दद्यादिति । माधवीये-ऋतेनसायं सत्येनप्रातश्चपरिपिंचयेत् । भविष्ये-भोजनात्किचिदन्नाग्रंधर्मराजायवैबलिम् । चित्रायचित्रगुप्तायप्रेतेभ्यश्चेदमुद्धरेत् । यत्रक्कचनसं १ पक्कमन्नमितिपाठः।
टाटाटायटिएeere
For Private And Personal

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241