Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh

View full book text
Previous | Next

Page 185
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir नस्त्रीजहयानानुपेतइतिआपस्तंबोक्तेश्च स्त्रीणांनाधिकारः। यत्तुस्मृत्यर्थसारे-स्त्रीबालश्चकारयेदितितद्विधवापरम् । यदपिस्मृति सारे-नातकोब्रह्मचारीपृथक्वैश्वदेवंकुर्यादिति । तन्न । भैक्षणवर्तयेन्नित्यमितिमनूक्तेर्ब्रह्मचारिणःपाकाभावात् पंचमहायज्ञाधिकारेगृहीति ला पदश्रवणाच नवेनमग्निहवनबलिहरणयोर्नियुज्यादिति । शौनकः-स्नातकेनापितत्कार्यपृथक्पाकोभवेद्यदि । वानप्रस्थस्याप्यधिकारः। अत्र वैश्वदेवमकृत्वैवश्राद्धंकुर्यादनग्निकइतिविशिष्टोक्तेरनग्नेरप्यधिकारः । शौनकः-पुत्रोभ्राताथवापत्नीशिष्योदासोबलिंहरेत् । मदनरत्नेत्रिः-पुत्रोमाताथवाऋत्विकृशिष्यश्वशुरमातुलाः । पत्नीश्रोत्रिययाज्याश्चदृष्टास्तेबलिकर्मणि । प्रतिनिधयइत्यर्थः । अतोबलावेवप्रतिनिधिरिति मदनरत्ने । बलिपदंवैश्वदेवोपलक्षणमितिपृथ्वीचंद्रः । अन्यैस्तुकारयेदेतानातुरोपिस्पृशद्विजः । सूतकाद्यैस्त्वशुद्धात्मानकुर्यान्नचका रयेदिति होमोपीतिचंद्रिका । एतत्प्रवासादिपरमिति चंद्रिकामदनरत्नयोः । ऋत्विक्साहचर्यात्साग्निकपरमित्याचारादर्शः । नत्री | जुहुयादित्यापस्तंयोक्तेः । पत्नीबलिंकुर्यान्नहोममितिपृथ्वीचंद्रः । सायंत्वन्नस्यसिद्धस्यपत्यमंत्रंबलिहरेदितिमनुस्मृतेरुपलक्षणत्वात्पढ्या अपिहोमइतिपृथ्वीचंद्रः। वस्तुतस्तुसदास्वयंकर्तृकत्वविकल्पः । स्वयंत्वेवैतान्यावद्गृहेवसन्बलिंहरेदपिवान्योब्राह्मणइति गोभिलोक्तेः। निरनेस्तुसदास्वकर्तृकत्वमेववैश्वदेवइत्याचारादर्शः । बौधायना-प्रवासंगच्छतोयस्यगृहेकर्तानविद्यते । पंचानांमहतामेषांसयज्ञैःसहग च्छति । प्रवासेकुरुतेचैतद्यदन्नमुपपच्यते । नचेदुत्पद्यतेनंतुअद्भिरेतान्समापयेत् । मिताक्षरायांनारदः-भाणामविभक्तानामेकोधर्मः प्रवर्तते । विभागेसतिधर्मोपिभवेत्तेषांपृथकूपृथक् । चंद्रोदयेमरीचि:-बहवःस्युर्यदापुत्राःपितुरेकत्रवासिनः । सर्वेखानुमतंकृत्वाज्येष्ठेनै वतुयत्कृतम् । द्रव्येणचाविभक्तेनसर्वैरवकृतंभवेत् । एकपाकेनवसतांपितृदेवद्विजार्चनम् । एकंभवेद्विभक्तानांतदेवस्याद्हेगृहे । आश्वला यन:-बसतामेकपाकेनविभक्तानामपिप्रभुः । एकस्तुचतुरोयज्ञान्कर्याद्वाग्यज्ञपूर्वकान् । वाग्यज्ञपूर्वकानित्यतद्गुणसंविज्ञानोबहुव्रीहिः । For Private And Personal

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241