________________
Shri Mah
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
नस्त्रीजहयानानुपेतइतिआपस्तंबोक्तेश्च स्त्रीणांनाधिकारः। यत्तुस्मृत्यर्थसारे-स्त्रीबालश्चकारयेदितितद्विधवापरम् । यदपिस्मृति
सारे-नातकोब्रह्मचारीपृथक्वैश्वदेवंकुर्यादिति । तन्न । भैक्षणवर्तयेन्नित्यमितिमनूक्तेर्ब्रह्मचारिणःपाकाभावात् पंचमहायज्ञाधिकारेगृहीति ला पदश्रवणाच नवेनमग्निहवनबलिहरणयोर्नियुज्यादिति । शौनकः-स्नातकेनापितत्कार्यपृथक्पाकोभवेद्यदि । वानप्रस्थस्याप्यधिकारः। अत्र वैश्वदेवमकृत्वैवश्राद्धंकुर्यादनग्निकइतिविशिष्टोक्तेरनग्नेरप्यधिकारः । शौनकः-पुत्रोभ्राताथवापत्नीशिष्योदासोबलिंहरेत् । मदनरत्नेत्रिः-पुत्रोमाताथवाऋत्विकृशिष्यश्वशुरमातुलाः । पत्नीश्रोत्रिययाज्याश्चदृष्टास्तेबलिकर्मणि । प्रतिनिधयइत्यर्थः । अतोबलावेवप्रतिनिधिरिति मदनरत्ने । बलिपदंवैश्वदेवोपलक्षणमितिपृथ्वीचंद्रः । अन्यैस्तुकारयेदेतानातुरोपिस्पृशद्विजः । सूतकाद्यैस्त्वशुद्धात्मानकुर्यान्नचका रयेदिति होमोपीतिचंद्रिका । एतत्प्रवासादिपरमिति चंद्रिकामदनरत्नयोः । ऋत्विक्साहचर्यात्साग्निकपरमित्याचारादर्शः । नत्री | जुहुयादित्यापस्तंयोक्तेः । पत्नीबलिंकुर्यान्नहोममितिपृथ्वीचंद्रः । सायंत्वन्नस्यसिद्धस्यपत्यमंत्रंबलिहरेदितिमनुस्मृतेरुपलक्षणत्वात्पढ्या
अपिहोमइतिपृथ्वीचंद्रः। वस्तुतस्तुसदास्वयंकर्तृकत्वविकल्पः । स्वयंत्वेवैतान्यावद्गृहेवसन्बलिंहरेदपिवान्योब्राह्मणइति गोभिलोक्तेः। निरनेस्तुसदास्वकर्तृकत्वमेववैश्वदेवइत्याचारादर्शः । बौधायना-प्रवासंगच्छतोयस्यगृहेकर्तानविद्यते । पंचानांमहतामेषांसयज्ञैःसहग च्छति । प्रवासेकुरुतेचैतद्यदन्नमुपपच्यते । नचेदुत्पद्यतेनंतुअद्भिरेतान्समापयेत् । मिताक्षरायांनारदः-भाणामविभक्तानामेकोधर्मः प्रवर्तते । विभागेसतिधर्मोपिभवेत्तेषांपृथकूपृथक् । चंद्रोदयेमरीचि:-बहवःस्युर्यदापुत्राःपितुरेकत्रवासिनः । सर्वेखानुमतंकृत्वाज्येष्ठेनै वतुयत्कृतम् । द्रव्येणचाविभक्तेनसर्वैरवकृतंभवेत् । एकपाकेनवसतांपितृदेवद्विजार्चनम् । एकंभवेद्विभक्तानांतदेवस्याद्हेगृहे । आश्वला यन:-बसतामेकपाकेनविभक्तानामपिप्रभुः । एकस्तुचतुरोयज्ञान्कर्याद्वाग्यज्ञपूर्वकान् । वाग्यज्ञपूर्वकानित्यतद्गुणसंविज्ञानोबहुव्रीहिः ।
For Private And Personal