Book Title: Sachitra Kalpasutra
Author(s): Shreyansvijay
Publisher: Jain Sangh
View full book text
________________
Shri Maha Von Aradhana Kendra
-आचाररत्वं ॥ ८९ ॥
www.kobatirth.org
Acharya Shri Kailashsage yanmandir
ष्णुधर्मोक्तेः । सिद्धांतशेखरे - चौर चांडालप तितो दक्यादेः स्पर्शने सति । शवाद्युपहते चैवप्रतिष्ठांपुनराचरेत् । पंचरात्रे - अंगादंगा दिसंघातेप्रतिष्ठांपुनराचरेत् । पूजाभावेविशेषमाहबौधायनः - पूर्वप्रतिष्ठितस्याबुद्धिपूर्वकमेकरात्रंद्विरात्रमेकमासंवार्चनादिविच्छेदे शूद्ररजस्वलाद्युपस्पर्शेजलेऽधिवास्य श्वोभूतेद्वौकलशावधिवास्यैकंपंचगव्येनपूरयेदपरंशुद्धोदकेनाथस्त्रपयेदष्टशतमष्टाविंशतिंवाकलशैः पुरुषसूक्ते नमूलमंत्रेणच ततः पुष्पाणिदत्वायथासंभवंसंपूज्यगुडौदनंनिवेदयेद्बुद्धिपूर्वमर्चनादिविच्छेदेप्येवमिति । शालग्रामस्थावरव्यावृत्त्यर्थं पूर्वप्रतिष्ठितस्ये त्युक्तम् । बुद्धिपूर्वविच्छेदेपुनः प्रतिष्ठा - द्रव्यवत्कृत शौचानांदेवतानां भूयः प्रतिष्ठापनेन शुद्धिरितिशुद्धिविवेकेविष्णूक्ते रितिकेचित् । तन्न । तत्रापिबौधायनोक्तविधिसत्वात् । विष्णूक्तिस्तुमद्यादिस्पर्शपरा मासद्वयाधिकविच्छेदपरावा । अर्चादिपदलिंगस्याप्युपलक्षणम् ॥
चंद्रिकायांनारदः - शृण्वंतुमुनयः सम्यक्पुरुषोत्तमपूजनम् । स्नात्वायथोक्तविधिनाप्राङ्मुखः शुद्धमानसः । स्वशाखोक्तक्रियांकृ त्वाहुत्वाचैवाग्निहोत्रकम् । कुर्यादाराधनं विष्णोर्देवदेवस्यचक्रिणः । बौधायनः —– अथातोमहापुरुषस्य परिचर्याविधिव्याख्यास्यामः । स्नात्वाशुधिः शुचौ देशेगोमयेनोपलिप्य प्रतिकृतिंकृत्वाक्षतपुष्पैर्यथालाभमर्चयेत् सहपुण्योदकेनमहापुरुषमावाहयेदोंभूः पुरुषमावाह यामि । ॐ भुवः पुरुषमावाहयामि । ॐ स्वः पुरुषमावाहयामि । ॐ भूर्भुवः स्वः पुरुषमावाहयामीत्यावाद्य । आयातुभगवान्म हापुरुषइत्यथस्वागतेनाभिनंदयति स्वागतमनुचागतं भगवतेमहापुरुषायैतदासनमुपक्लृप्तमत्रास्तां भगवान्महापुरुषइत्यत्र कूर्चददातिभगवतेयं कूर्योदर्भमयस्त्रिवृद्धरितस्तं जुषस्खेत्यत्रस्थानासनानिकल्पयति अग्रतः शंखायकल्पयामि चक्रायदक्षिणतो गदायैक० वनमालायैक० पश्चि मतः श्रीवत्सायगरुत्मते । उत्तरतः श्रियैसरस्वत्यै पुष्ट्यैतुष्टयै । अथसावित्र्यापात्रमभिमंत्र्यप्रक्षाल्यत्रिरपः पवित्रमानीयसहपवित्रेणादित्यं दर्शयेदोमित्यादितस्तासांत्रीणिपदाविचक्रमेइतिपाद्यंप्रणवेनार्घ्यमहाव्याहृतिभिर्निर्माल्यंव्यपोह्योत्तरतोविष्वक्सेनाय नमइत्यथैनं स्नपयत्यापोहिष्ठे
For Private And Personal
देवपूजा.
॥ ८९ ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241