Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 8
________________ 28282828282828282828282 वस्तुन्यवाप स रुपसेन:, एवं सुकृतकर्मणां फलपरिचयः । ___तथैव स रुपसेन: पुराऽऽयुषि विद्याबलेन स्वश्वसुरं तिर्यञ्च रचयामास। द्वादशघटिकाऽवधि तथावस्थमेव तं विकरोतिस्म । अनेन प्रगाढकर्मणा वर्तमानजीविते विपच्छृङ्खला जगाम, द्वादशवर्षपर्यन्तं माता-पित्रोवियोगं सेहे, प्रथमपरिणयविकलताऽऽधातं प्राप, गृहपरिहरणवेलाञ्च निरक्षत, एवं दुष्कृतकर्मणां विपाकदारुणतासंस्तव:, कर्मबन्धनक्षण एव प्रत्येकै: सावधानैर्भाव्यमिति निष्कर्षभूत उपदेश एतच्चरित्रस्य, पूज्यपादसंवेगरसिकमनसां श्रीमद्विद्याराजसूरीश्वराणां साम्राज्यवर्तिभ्यस्तच्छिस्यप्रवरश्रीमछुधाभूषणगणिवराणां विनेयेभ्य: ग्रन्थस्याऽस्य प्रणेतृभ्यः सङ्ख्यातीतमत्र वन्दे । द्वितीयं तावत्कूर्मापुत्रचरित्रम्, निर्मलचरणधनानां श्रीमतां हेमविमलसूरीश्वराणां विनेयरलपाठकप्रवरश्रीजिनमाणिक्यगणिवरस्यान्तिषदानन्तहंसमुनिवरेण विरचितप्राकृतपद्यानुसारत: केनचित् पण्डितप्रवरेण ग्रथितमिदं चरितं वैराग्यगुणमहिमानं समीचिनतयोदाहरति चरित्रनेताऽत्र महाभाग: श्रीमान् कूर्मापुत्रः । __गणनातीतधननिधनायितधनकुबेरं पराभूतशतक्रत्वन्त:पुरं विपुलभोगसामग्रीसमाकुलं कूर्मापुत्रं मुनिवेशस्य दर्शनमपि संसाराऽब्धे-निस्तारयति एकवारमेव मुनिदर्शनमुपलभ्य स धूतकन्दर्परजा अनासक्तयोषिदभिष्वङ्गरतिश्च निरससमग्रसंसारवासो बभूव रागादिव रागतामवलम्बिनी तस्यैतादृशी परिवर्तनयात्रा भवनिर्वेदस्य 828282828282828282828282 ॥ ७ ॥ ७ ॥ Jain E cht For Personal Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 124