________________
28282828282828282828282
वस्तुन्यवाप स रुपसेन:, एवं सुकृतकर्मणां फलपरिचयः । ___तथैव स रुपसेन: पुराऽऽयुषि विद्याबलेन स्वश्वसुरं तिर्यञ्च रचयामास। द्वादशघटिकाऽवधि तथावस्थमेव तं विकरोतिस्म । अनेन प्रगाढकर्मणा वर्तमानजीविते विपच्छृङ्खला जगाम, द्वादशवर्षपर्यन्तं माता-पित्रोवियोगं सेहे, प्रथमपरिणयविकलताऽऽधातं प्राप, गृहपरिहरणवेलाञ्च निरक्षत, एवं दुष्कृतकर्मणां विपाकदारुणतासंस्तव:, कर्मबन्धनक्षण एव प्रत्येकै: सावधानैर्भाव्यमिति निष्कर्षभूत उपदेश एतच्चरित्रस्य, पूज्यपादसंवेगरसिकमनसां श्रीमद्विद्याराजसूरीश्वराणां साम्राज्यवर्तिभ्यस्तच्छिस्यप्रवरश्रीमछुधाभूषणगणिवराणां विनेयेभ्य: ग्रन्थस्याऽस्य प्रणेतृभ्यः सङ्ख्यातीतमत्र वन्दे ।
द्वितीयं तावत्कूर्मापुत्रचरित्रम्, निर्मलचरणधनानां श्रीमतां हेमविमलसूरीश्वराणां विनेयरलपाठकप्रवरश्रीजिनमाणिक्यगणिवरस्यान्तिषदानन्तहंसमुनिवरेण विरचितप्राकृतपद्यानुसारत: केनचित् पण्डितप्रवरेण ग्रथितमिदं चरितं वैराग्यगुणमहिमानं समीचिनतयोदाहरति चरित्रनेताऽत्र महाभाग: श्रीमान् कूर्मापुत्रः । __गणनातीतधननिधनायितधनकुबेरं पराभूतशतक्रत्वन्त:पुरं विपुलभोगसामग्रीसमाकुलं कूर्मापुत्रं मुनिवेशस्य दर्शनमपि संसाराऽब्धे-निस्तारयति एकवारमेव मुनिदर्शनमुपलभ्य स धूतकन्दर्परजा अनासक्तयोषिदभिष्वङ्गरतिश्च निरससमग्रसंसारवासो बभूव रागादिव रागतामवलम्बिनी तस्यैतादृशी परिवर्तनयात्रा भवनिर्वेदस्य
828282828282828282828282
॥
७
॥
७
॥
Jain E
cht
For Personal Private Use Only
jainelibrary.org