________________
ग्रन्थयुतिमती प्रतिरियम......
1282828282828282828282828
ग्रन्थयुतिमती प्रतिरियं शुभमतिपूरितमनसां मुनिनामन्तस्तलं निजानन्दक्षीरसागरपयोऽभिषेकद्वारा नितरां निर्मलयति । प्रत्यामेतस्यां द्वे ग्रन्थे समावेशिते, प्रथमं तावद् रुपसेनचरित्रम्, जिनाजावासितवृत्तिभिः श्रीमद्भिर्जिनसूरमुनिवरैः प्रणीतमेतच्चरित्रं कृतकर्मणां विपाकभीषणतामल्पस्य चाऽपि कृतसुकृतस्य फलातिशयतां परिचाययति, विस्तृतं कथावस्तु कथाया एतस्याः, चरित्राधीशो रुपसेन: पूर्वजन्मनि चतुरो व्रतान् गृहीतवान्, प्रथमं निशाभोजनपरिहरणम्, द्वितीयं बृहत्काय-जीवहिंसात्यजनम्, तृतीयं यावच्छक्यं सुपात्रदानविधानम्, तुरीयञ्च जिनमन्दिरेऽनिशं परमात्मदर्शनं तद्विधाय स्वस्तिकपूरणञ्च ।
चतुर्णां नियमानां प्रभावेन सो रुपसेनजनुषि केभ्यश्चिद् योगिभ्यश्चमत्कृतिसमृद्धानि चत्वारि वस्तुनि लेभे, प्रथमं तत्र कन्था, यस्या विस्तरणमपि काञ्चनमुद्राणां पञ्चशतीं ददाति, द्वितीयं तत्र दंडः, प्रताडनद्वारा गतप्राणमप्यसुलाभं स विश्राणयति, तृतीयं तत्र पात्रम्, लक्षसं-ख्यकजनतोदरपूरणपर्याप्तं भोजनं केवलया प्रार्थनया तदर्पयति, तुर्यं तत्र पादुका, मनुजस्तद्धारणद्वारा विहायसागन्तुं शक्नुयात्, त्रिजगज्जन्तुचमत्कृतिकर्माणि
288888888888888888888888
Jain Educatio
For Personal & Private Use Only
w.jainelibrary.org