Book Title: Rupsen Rajkumar Kurmaputra Charitra Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, Publisher: Smruti Mandir Prakashan Ahmedabad View full book textPage 7
________________ ग्रन्थयुतिमती प्रतिरियम...... 1282828282828282828282828 ग्रन्थयुतिमती प्रतिरियं शुभमतिपूरितमनसां मुनिनामन्तस्तलं निजानन्दक्षीरसागरपयोऽभिषेकद्वारा नितरां निर्मलयति । प्रत्यामेतस्यां द्वे ग्रन्थे समावेशिते, प्रथमं तावद् रुपसेनचरित्रम्, जिनाजावासितवृत्तिभिः श्रीमद्भिर्जिनसूरमुनिवरैः प्रणीतमेतच्चरित्रं कृतकर्मणां विपाकभीषणतामल्पस्य चाऽपि कृतसुकृतस्य फलातिशयतां परिचाययति, विस्तृतं कथावस्तु कथाया एतस्याः, चरित्राधीशो रुपसेन: पूर्वजन्मनि चतुरो व्रतान् गृहीतवान्, प्रथमं निशाभोजनपरिहरणम्, द्वितीयं बृहत्काय-जीवहिंसात्यजनम्, तृतीयं यावच्छक्यं सुपात्रदानविधानम्, तुरीयञ्च जिनमन्दिरेऽनिशं परमात्मदर्शनं तद्विधाय स्वस्तिकपूरणञ्च । चतुर्णां नियमानां प्रभावेन सो रुपसेनजनुषि केभ्यश्चिद् योगिभ्यश्चमत्कृतिसमृद्धानि चत्वारि वस्तुनि लेभे, प्रथमं तत्र कन्था, यस्या विस्तरणमपि काञ्चनमुद्राणां पञ्चशतीं ददाति, द्वितीयं तत्र दंडः, प्रताडनद्वारा गतप्राणमप्यसुलाभं स विश्राणयति, तृतीयं तत्र पात्रम्, लक्षसं-ख्यकजनतोदरपूरणपर्याप्तं भोजनं केवलया प्रार्थनया तदर्पयति, तुर्यं तत्र पादुका, मनुजस्तद्धारणद्वारा विहायसागन्तुं शक्नुयात्, त्रिजगज्जन्तुचमत्कृतिकर्माणि 288888888888888888888888 Jain Educatio For Personal & Private Use Only w.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 124