Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
प्रथमः सर्गः
२७
व्याख्या - प्रजायन्ते इति = प्रजास्तासाम्प्रजानां जनानां, विनयस्य = शिक्षणस्य, आधानं करणं, तस्मात्, विनयाधानात्, सन्मार्गे प्रवर्तनादित्यर्थः, रक्षणात् = चौरादिभयहेतुभ्यस्त्राणात् विपत्तिनिवारणादित्यर्थः, भरणात् = अन्नपानादिदानेन पोषणात्, अपि सः = राजा दिलीपः पाति = रक्षतीति पिता = पालक:, 'अभूत्', तासां प्रजानां पितरः = जनकाः, तु, जन्मतः = जन्म मात्रस्य, उत्पादनमात्रस्येति यावत्, हेतवः = कर्तारः, 'एव अभूवन्' ।
To
समा०-- प्रकर्षेण जायन्ते इति प्रजाः तासाम् प्रजानाम् । विनयस्य आधानम् विनयाधानम् तस्मात् विनयाधानात् । पाति इति पिता । जन्मनः हेतवः जन्महेतवः । -- राजा दिलीपो हि स्वप्रजानां शिक्षणभरणरक्षणं सर्व दैवाकरोदिति
अभि०
·--
=
स एव पिता आसीत्, पितॄणां केवलं जननव्यापारो न तु शिक्षणादिषु ।
हिन्दी -- अपनी प्रजा को नम्रता, सदाचार की शिक्षा देने से, और उसकी आपत्तियों से रक्षा करने से, एवं अन्नजल की व्यवस्था करके पालन करने से राजा दिलीप ही वास्तव में प्रजा के पिता थे, पिता कहाने वाले और सब तो केवल जन्म देकर नाममात्र के ही पिता थे ॥२४॥
स्थित्यै दण्डयतो दरड यान्परिणेतुः प्रसूतये । अर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥ २५ ॥
सञ्जीविनी - - दण्डमर्हन्तीति दण्डया: 'दण्डादिभ्यो यः' इति यप्रत्ययः । 'अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्च वाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥' इति शास्त्रवचनात् । तान् दण्ड्यानेव स्थित्यं लोकप्रतिष्ठायै दण्डयतः शिक्षयतः । प्रसूतये संतानायैव परिणेतुर्दारान्परिगृहृतः । मनीषिणो विदुषः दोषज्ञस्येति यावत् । 'विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः । धीरो मनीषी' इत्यमरः । तस्य दिलीपस्यार्थकामावपि धर्म एवास्तां जातौ । अस्तेर्लङ्ग । अर्थकामसावनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादन रूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः । आह च गौतम:'न पूर्वा मध्य दिनापर | नफलान्कुर्यात् यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात्' इति ॥ २५ ॥
अन्वयः -- दण्ड्यान्, एव, स्थित्यं, वण्डयतः, प्रसूतये, परिणेतुः, मनीषिणः, तस्य, अर्थकामौ, अपि, धर्मः, एव, आस्ताम् ।