Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
१३४
काव्यमाला |
अथामृतगतिछन्द:
दिअवर हार पअलिआ पुण वि तह ट्ठिअ करिआ । वसुलहु वे गुरुसहिआ अमिअगइ धुअ कहिआ ॥ ९९ ॥ [द्विजवरो हारः प्रकटितः पुनरपि तथास्थितं कुरु ।
-
वसुलघुद्विगुरुसहितामृतगतिर्ध्रुवं कथिता ||]
भोः शिष्याः, सा अमृतगतिरिति ध्रुवं निश्चितं कथिता । सा का । यत्र प्रथमं द्विजवरगणश्चतुर्लघ्वात्मको गणः, ततो हारो गुरुः प्रकटितः पुनरपि तथा स्थितं कुरु द्विजगणानन्तरं गुरुं कुर्वित्यर्थः । एवं सत्यष्टौ लघवो द्विगुरुसहिताश्चरणे यस्याः सामृतगतिरिति ॥ वाणीभूषणे तु–'नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥ क्वचिदियमेव त्वरितगतिरिति ॥
अमृतगतिमुदाहरति — जहा (यथा ) -
सरदसुधाअरवअणा विअअसरोरुहणअणा |
मअगलकुञ्जरगमणी पिअसहि दिट्ठिअ तरुणी ॥ १०० ॥ [शारदसुधाकरवदना विकचसरोरुहनयना ।
मदगलकुञ्जरगमना प्रियसखि दृष्टा तरुणी ||]
प्रियसखि, त्वयां सा तरुणी दृष्टा । कीदृशी । शारदसुधाकरवदना । पुनः कीदृशी । विकचसरोरुहनयना । मदकलकुञ्जरगमना । इति ॥ उवणिका यथा ॥,,,, १०×४=४० ॥ अमृतगतिर्निवृत्ता ॥ अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्रं १०२४ भेदा भवन्ति ॥ तेषु पञ्च भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनया इति ॥
अथैकादशाक्षरप्रस्तारे बन्धुच्छन्द:
नीलसरूअह एक करीजे तिण्णि भआगण तत्थ भणीजे । सोलह मत्तह पाठवीजे दुग्गुरु अन्तहि बन्धु कहीजे || १०१ || [नीलस्वरूपादेकः कर्तव्यस्त्रयो भगणास्तत्र भण्यन्ते ।
षोडश मात्रा: पादे स्थाप्यन्ते द्विगुरुरन्ते बन्धुः कथ्यते ॥] षोडशवर्णात्मकैर्भगणपञ्चकयुक्तैः षोडशभिश्चरणैश्चतुश्छन्दोभिप्रायेण नीलस्वरूपं छन्दो भवति । अतश्च नीलस्वरूपादेकश्चरणः कर्तव्यः । तत्र चरणे षोडशवर्णपञ्चभगणगुर्वा - म यो भगणा गुर्वादिका गणा भण्यन्ते । अन्ते भगणत्रयान्ते द्विगुरुः कर्णो दीयते पादे च षोडश मात्राः स्थाप्यन्ते यत्र तद्बन्धुः नामकं छन्दः कथ्यते ॥ भूषणेऽप्युक्तम्'भयशोभितसंगत कर्ण एकसुसंगतपङ्किकवर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः ॥
―

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256