Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 210
________________ १९४ काव्यमाला। [यनेन्द्रासनमेको गणः स भवति पादे पादे दशाष्टवर्णाः सुखयन्ति दण्डाः स्थाने स्थाने । दश त्रिगुणिता यत्र सर्वा भवन्ति मात्राः सुपादे फणीन्द्रो भणति क्रीडाचन्द्रछन्दो निबद्धं यत् ॥] भोः शिष्याः, यत्रेन्द्रासनमादिलघुः पञ्चकलो गणोऽर्थाद्यगणः स एवैकः पादे पादे भवति षडिर्यगणैः पाद इत्यर्थः । पादे चाष्टादश वर्णाः सुखयन्ति । दण्डा लघवः स्थाने स्थाने भवन्ति । यत्र मात्राश्च दश त्रिगुणितास्त्रिंशत् पदे भवन्ति तन्मात्राभिर्निबद्धं क्रीडाचन्द्र इति छन्दः फणीन्द्रः पिङ्गलो भणतीति वित्त ॥ भूषणे तु प्रकारान्तरेणोक्तम्'ध्वजं चामरं गन्धकौँ रसः कुण्डलं तोमरं च तथा तालताटङ्कतूर्याणि शेषे गुरुद्वन्द्वमत्र। तदा क्रीडया चिह्नितं चन्द्रमेतद्भुजंगाधिराजः कविश्रेणिविस्मापकं सर्वलोकप्रियं स जगाद॥' क्रीडाचन्द्रमुदाहरति-जहा (यथा)जहाँ भूत वेताल णञ्चन्त गावन्त खाए कवन्धा सिआफारफेकारहक्का चलन्ती फुले कण्णरन्धा । कआ दुट्ट फुट्टेइ मन्था कवन्धा णचन्ता हसन्ता तहाँ वीर हम्मीर संगाममज्ज तुलन्ता जुलन्ता ॥ २३० ॥ [यत्र भूता वेताला नृत्यन्ति गायन्ति खादन्ति कबन्धा शिवास्फारफेत्कारशब्दाश्चलन्ति स्फुटन्ति कर्णरन्ध्राणि ।। कायत्रुध्यति स्फुटति मस्तकं कबन्धा नृत्यन्ति हसन्ति तत्र वीरहम्मीरः संग्राममध्ये त्वरितं युक्तः ॥] कश्चित्कविर्वीरहम्मीरस्य भीषणसमराङ्गणप्रयाणमनुवर्णयति-यत्र समरसमिनि भूता वेतालाश्च नृत्यन्ति गायन्ति खादन्ति च कबन्धानपमूर्धकलेवरान् महावीरान् । यत्र च शिवानां फेरवाणां स्फारा अतिदीर्घाः फेकारहक्काः फेत्कारशब्दाश्चलन्ति प्रसरन्ति । अत एव कर्णरन्ध्राणि स्फुटन्ति । किंच कायस्त्रुध्यति, मन्था मस्तकं स्फुटति, कबन्धाः शिरोरहिता वीरा नृत्यन्ति हसन्ति च । यत्र सहस्रवीरघातिनः सहस्रं वीरा यदा म्रियन्ते त. दैकः कबन्ध उत्तिष्ठत इति प्रसिद्धिः । अत्र तु कबन्धा नृत्यन्तीति बहुवचनमहिना स्फुटमेवातिभीषणत्वं समराङ्गणस्येति भावः । तहाँ तादृशातिभयजनकरणभूमौ वीरहम्मीरः संग्राममध्ये त्वरितं युक्तः प्रविष्ट इत्यर्थः ॥ उद्दवणिका यथा- Iss, ISS, Iss, Iss, Iss, iss, १८४४=७२॥ क्रीडाचन्द्रो निवृत्तः ॥ १. 'खादित्वा' रवि०. २. 'युध्यति' रवि०.

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256