Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 232
________________ २१६ काव्यमाला। [यत्रादौ हस्तः करतलं तथा पादो लघुयुगं वक्रास्त्रयः स्थापयित्वा शल्यं प्रथमं चमरगुरू सल्ययुगं पुनर्वक्रः स्थितः । पदान्ते हस्तगणः प्रभण्यते त्रयोविंशतिर्वर्णाः प्रमाणीकृताः . एतन्मात्राभिः प्राप्त..."प्रभण्यते वर्णैः सुन्दरिका भणिता ॥] भोः शिष्याः, यत्रादौ हस्तः सगणो भवति, तथा करतलं सगण एव, ततः पादगणो भगणः, ततो लहूजुअ लघुद्वयमित्यर्थः । तदनन्तरं वङ्क तिआ वक्रास्त्रयः गुरुत्रयमित्यर्थः ।, ततः ठवि सल्ल शल्यं स्थापयित्वा शल्यं लघुमेकम् । ततः पहिल्लौ प्रथमं शल्यमेव लघुमेव स्थापय सच शल्यो लघु: चमरहिहिल्लौ चमरगुरू मिलित्वैतदने गुरुर्भवतीत्यर्थः । ततः सलजुअं शल्ययुगं लघुद्वयमित्यर्थः । पुनर्यत्र वङ्क ठिआ वक्रो गुरुः स्थितः । ततः पदे पदे प्रतिपदमन्ते हस्तगणः सगणः प्रभण्यते । एवं त्रयोविंशतिर्वर्णाः पादे यत्र प्रमाणीकृताः । तदेतन्मात्राभिर्वर्णैश्च प्राप्तं सुन्दरीनामकं छन्दो भणितमशेषैः कविभिः प्रभण्यते भवत्सु कथ्यते इत्यर्थः ॥ वाणीभूषणे तु प्रकारान्तरेणोक्तम्-'करसङ्गिसवर्णद्वयवलया ताटङ्कमनोहरशङ्खधरा कुसुमत्रयराजच्छ्रवणविलोलकुण्डलमण्डितरत्नधरा । भुजसंमतकेयूरजसुविलासा पिङ्गलनागसमालपिता किल सुन्दरिका सा भवति तदा पद्मावतिका कविराजहिता ॥' ___ सुन्दरीमुदाहरति-जहा (यथा)जिणि वेअ धरिज्जे महिअल लिज्जे पिट्ठिहि दन्तहि ठाउ धरा रिउवच्छ विआरे छलतणुधारे वन्धिअ सत्तु पआल धरा । कुलखत्तिअ कम्पे दहमुह कट्टे कंसअकेसिविणास करा करुणे पअले मेच्छह विअले सो देउ णराअणु तुम्ह वरा॥२७२।। येन वेदा धृता महीतलं नीतं पृष्ठेन देन्ताभ्यां समुद्भुतं धरा ___ रिपुवक्षो विदारितं छलतनुधारिणा बद्धा शत्रुः पाताले धृतः । क्षत्रियकुलं कम्पितं दशमुखानि कर्तितानि कंसकेशिविनाशः कृतः करुणा प्रकटिता म्लेच्छा विलापिताः स ददातु नारायणस्तुभ्यं वरम्॥] कश्चित्कविर्दशावताररूपेण विष्णुं स्तुवन्मङ्गलमभिनन्दति-येन विरचितमीनशरीरेण प्रलयजलधिमध्यतः पञ्चजनासुराद्वेदाः समुद्धताः, येन च कृतकूर्मरूपेण पिढिहि पृष्ठेन महीमण्डलं भूमण्डलं विधृतम् । किंच येन विधृतसूकररूपेण दन्ताभ्यां मेदिनीमण्डलमुद्दतम् । येन च विरचितनरहरिरूपेण रिपोर्हिरण्यकशिपोर्वक्षो विदारितम् । अथच येन छलतनुधारिणा कृतवामनशरीरेण शत्रुर्बलिर्बद्धा पाताले धृतः । अपिच प्राकृते पूर्वनिपातानिय. मात्क्षत्रियकुलं येन धृतजामदग्यविग्रहेण तापि(कम्पि)तम् । येन च विरचितरामावतारेण १. 'गृहीते पृष्ठे' रवि०. २. 'दन्ते स्थापिता धरा' रवि०.

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256