Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 245
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । २२९ यदि नगणद्वयानन्तरमेव प्रतिचरणं विवृद्धरेफाः क्रमात् समधिकरगणास्तदा अर्णअर्णव-व्याल-जीमूत-लीलाकर-उद्दाम-शङ्खादयो दण्डकाः स्युरिति । एतेन नगणयुगलवसुरेफेणाणः । ततः परे क्रमाद्रगणवृद्ध्याज्ञेयाः । आदिशब्दादन्येऽपि रगणवृझ्या स्वबुझ्या नामसमेता दण्डका विधेया इत्युपदिश्यते ॥ तत्राों यथाजय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासाच्युतानन्त , नारायण त्रिदशगणगुरो मुरारे मुकुन्दासुरारे हृषीकेश पीताम्बर श्रीपते माधव । गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वंभरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे बलिदमन नृसिंह शौरे भवाम्भोधिघोरार्णसि त्वं निमज्जन्तमभ्युद्ध रोपेत्य माम् ॥ २९६ ॥ उध्वणिका यथा-,,sis, sis, SIS,SIS, SIS, SIS, SIS, SIS, ३०४४% १२० ॥ अर्णो निवृत्तः । एवमन्येऽपि क्रमाद्रेफविवृद्धचरणा दण्डकाः समुन्नेया इति ॥ अथ प्रचितको दण्डकःप्रचितकसमभिधो धीरधीभिः स्मृतो दण्डको नद्वयादुत्तरैः सप्तभिर्यैः२९७ ___ नगणद्वयादुत्तरैः सप्तभिर्यगणैर्धारधीभिः सप्तविंशतिवर्णात्मकचरणः प्रचितकाख्यो दण्डकः स्मृतः॥ यथामुरहर यदुकुलाम्भोधिचन्द्र प्रभो देवकीगर्भरत्न त्रिलोकैकनाथ प्रचितकपट सुरारिव्रजोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्र । चरणनखरसुधांशुच्छटोन्मेषनिःशेषितध्यायिचेतोनिविष्टान्धकार प्रणतजनपरितापोगदावानलच्छेदमेघ प्रसीद प्रसीद प्रसीद ॥२९८॥ उदृवणिका यथा-॥, , Iss, Iss, Iss, Iss, Iss, Iss, Iss, २७x४= १०८ ॥ प्रचितको निवृत्तः॥ अथाशोकपुष्पमञ्जरीदण्डकःयत्र दृश्यते गुरोः परो लघुःक्रमात्स उच्यते बुधैरशोकपुष्पमञ्जरीति२९९ यत्र गुरोः परः क्रमाल्लघुदृश्यते रगणजगणक्रमेण रगणान्तं नवगणा लघ्वन्ता वसुलोचनवर्णाश्चरणा दृश्यन्ते यत्रासावशोकपुष्पमञ्जरीति नाम दण्डको बुधैरुच्यते इति ॥

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256