Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 248
________________ २१२ काव्यमाला अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा॥३०८॥ __ अयुजि विषमे प्रथमे तृतीये चरणे नयुगलरेफतो नगणयुगलरगणतः परो यकारो य. गणो भवति । युजि समे तु द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरगाः जगणरगणगुरवश्च यत्र भवन्ति तत्पुष्पिताग्रानामकं छन्दः ।। यथाकरकिसलयशोभया विभान्ती कुचफलभारविनम्रदेहयष्टिः । स्मितरुचिरविलासपुष्पितामा ब्रजयुवतिव्रततिहरेर्मुदेऽभूत् ॥ ३०९ ॥ उदृवणिका यथा-वि० ॥m, us, IsI, ss, स० ॥॥, su, s, Isi,ss. प्रसरति पुरतः सरोजमाला तदनु मदान्धमधुव्रतस्य पतिः । तदनु धृतशरासनो मनोभूस्तव हरिणाक्षि विलोकनं तु पश्चात् ॥३१०॥ प्रकारान्तरेणोटवणिका यथा-वि. , , sis, Iss, स० , si, Isi,sis, s, इति पुष्पिताना निवृत्ता ॥ ___ अथोपचित्रं छन्दःविषमे यदि सौ सलगा दले भौ युजि भाद्गुरुकावुपचित्रम् ॥ ३११ ॥ यत्र विषमे प्रथमे तृतीये च चरणे एवंविधे दलेऽर्धे यदि सौ सगणावथ च सलगाः सगणलगुरवो भवन्ति, किं च युजि समे द्वितीये चतुर्थे च चरणे यदि भौ भगणावथ च भात् भगणात् गुरुकौ भवतस्तदोपचित्राख्यमर्धसमं वृत्तमिति । द्विरावृत्त्या श्लोकः पूरयितव्यः ॥ यथा मुरवैरिवपुस्तनुतां मुदं हेमनिभांशुकचन्दनलिप्तम् । गगनं चपलामिलितं यथा शारदनीरधरैरुपचित्रम् ॥ ३१२ ॥ उद्दवणिका यथा-वि० ॥s, us, us,1, 5, स० su, sh, su, s, s, उपचित्रं निवृत्तम् ॥ अथ वेगवतीछन्दःविषमे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात् ॥ ३१३॥ विषमे प्रथमे तृतीये च चरणे प्रथमाक्षरहीनं दोधकवृत्तमेव वेगवती स्यात् । समे तु दोधकमेवेति । अतः प्रथमे तृतीये सगणत्रयानन्तरं गुरुः, चतुर्थे द्वितीये च भगणत्रयानन्तरं गुरुद्वयमिति ॥ यथा स्मरवेगवती ब्रजरामा केशववंशरवैरतिमुग्धा । रभसान गुरुं गणयन्ती केलिनिकुञ्जगृहाय जगाम ॥ ३१४ ॥

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256