Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः]
प्राकृतपिङ्गलसूत्रम् ।
२३३
___ उद्दवणिका यथा-वि० ॥s, us, us, s, स० su, su; sh, s, s, वेगवती निवृत्ता ॥ अथ हरिणप्लता छन्दःअयुजि प्रथमेन विवर्जितो द्रुतविलम्बिततो हरिणप्लुता॥३१५॥ अयुजि प्रथमे तृतीये च चरणे द्रुतविलम्बिततः प्रथमेन वर्णेन विवर्जिते सति युजि तु .. द्रुतविलम्बितछन्दसेव तदा हरिणप्लता छन्दः । एतदुक्तं भवति-प्रथमे तृतीये च चरणे सगणत्रयानन्तरं लगौ, द्वितीये चतुर्थे च चरणे नगणानन्तरं भगणद्वयमथ च रगणमिति ॥ यथास्फुटफेनचया हरिणप्लुता बलिमनोज्ञतटा तरणेः सुता । कलहंसकुलारवशालिनी विहरतो हरति स्म हरेर्मनः ॥ ३१६ ॥
उद्दवणिका यथा-वि० ॥s, us, us, 1, 5, स० ॥, su, su, sis, ह. रिणप्लता निवृत्ता॥
अथापरवकं छन्दःअयुजि ननरलाः गुरुः समे यदपरवक्रमिदं नजौ जरौ ॥ ३१७॥ अयुजि विषमे प्रथमे तृतीये च चरणे ननरला नगणद्वयरगणलघवः अथ च गुरुः समे द्वितीये चतुर्थे च चरणे नजौ नगणजगणावथ च जरौ जगणरगणौ यत्र भवतस्तदिदमपरवर्क नाम वृत्तम् ॥ यथास्फुटसुमधुरवेणुगीतिभिस्तमपरवक्रमिवैत्य माधवम् । मृगयुवतिगणैः समं स्थिता ब्रजवनिता धृतचित्तविभ्रमा ॥३१८॥ उद्दवणिका यथा- वि०, , , sis, I, S, स० ॥, Ish, ISI, SIS, यथा वा हर्षचरिते
तरलयसि दृशां किमुत्सुकामविरतिवामविलासलालसे ।
अवतर कलहंसि वापिकाः पुनरपि यास्यसि पङ्कजालयम् ॥३१९॥ अपरवकं निवृत्तम् ॥ अथ सुन्दरी छन्दःअयुजोर्यदि सौ लगौ पुनः समयोः स्भौ रलगाश्च सुन्दरी॥३२०॥ यत्र अयुजोर्विषमयोः प्रथमतृतीययोश्चरणयोर्यदि सौ सगणद्वयमथ च लगौ लघुगुरू भवतः पुनरपि तावेव, समयोद्वितीयचतुर्थयोश्चरणयोः स्भौ सगणभगणावथ च रलगा रगणलघुगुरवो भवन्ति, तत्सुन्दरीछन्दः ॥ द्विरावृत्त्या श्लोकः पूरणीयः ॥
१. छन्दोमञ्जर्या तु 'जगौ युजोः सभरा गौ यदि सुन्दरी तदा' इति पाठ उपलभ्यते.
३०

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256