Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
च जगौ जगणगुरू यत्र भवतस्तदा तृतीयचरणमात्रजातभेदा भारविमाघयोरुपलभ्यमानत्वादियं प्रकारान्तरेणोद्गता प्रभवतीति ॥
ततश्च किराते यथा -
अथ वासवस्य वचनेन रुचिरवदनस्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनंजयः ॥ ३२५ ॥
वणिका यथा - १ ॥s, IsI, II, I, २॥॥, ॥S, ISI, S, ३८॥, II, ISI, I, S, ४ ॥S, ISI, IS, IS, I, S,
यथा वा माघे—
तव धर्मराज इति नाम सदसि यदपष्टु पठ्यते । भौमदिनमभिदधत्यथ वा भृशमप्रशस्तमपि मङ्गलं जनाः || ३२६ || afrat समानैव । उद्गता निवृत्ता ॥
अथ सौरभकच्छन्द:
त्रयमुद्गतासदृशमेव पदमिह तृतीयमन्यथा ।
जायते नभथितं कथयन्ति सौरभकमेतदीदृशम् || ३२७ ॥ भोः शिष्याः, यत्र त्र्यं प्रथमद्वितीयचतुर्थमिति पदत्रयमुद्गतासदृशमेव । इह सौरभके तृतीयपादमन्यथा । उद्गतापादाद्भिन्नमित्यर्थः । अन्यथात्वमेवाह – जायत इति । तृती - यपदं रनभगैः रगणनगणभगणगुरुभिर्ग्रथितं यत्रैतदीदृशं सौरभकनामकं वृत्तं भवतीति च्छान्दसीयाः कथयन्तीति ॥
यथा
परिभूतफुल्ल शतपत्रवनविसृतगन्धविभ्रमा ।
कस्य हृन्न हरतीह हरे पद्मसौरभकला तवाद्भुता ॥ ३२८ ॥
२३५
उवणिका यथा - १ ॥, II, IS, I, २ ॥, ॥S, ISI, S, ३ SIS, III, SI, S, ४ ऽ ऽ, i, sis, I, ऽ, सौरभकं निवृत्तम् ॥
अथ ललितं छन्द:
मयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदीरितमुरुमतिभिर्ललितं यदि शेषमस्य सकलं यथोद्गता ॥ ३२९ ॥
भोः शिष्याः, यत्र तृतीयके चरणे नयुगं नगणद्वयं सकारयुगलं सगणयुग्मं च भवति तदुरुमतिभिर्ललितमिति नामकमुदीरितमिति । अस्य ललितस्य यदि शेषं सकलं प्रथमद्वितीयतुर्यपदं यथोद्गतातुल्यमित्यर्थः ॥
१. 'यदि वेत्तृतीयके' इति छन्दो०.

Page Navigation
1 ... 249 250 251 252 253 254 255 256