Book Title: Prakrit Pingal Sutrani
Author(s): Lakshminath Bhatta, Sivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
२ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । इति । सर्वत्र वक्रप्रकरणे निगदितैव। लक्षणमुपलक्षितं विचक्षणैश्छान्दसिकैरिति ॥
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये ।।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ ३३७ ॥ उध्वणिका यथा-sssi, Isss, किं च
प्रयोगे प्रायिकं प्राहुः केऽप्येतद्वक्रलक्षणम् ।
लोकेऽनुष्टुबिति ख्यातिस्तस्याष्टाक्षरता कृता ॥ ३३८ ॥ तथा नानागणभेदेन विषमवृत्तमेव सकलपुराणादिष्वष्टाक्षरचरणं वक्रसंज्ञामेव लभत इति विषमवृत्तानि दिङ्मात्रतः समुदाहृतानि । शेषाणि भहलायुधनिर्मितपिङ्गलवृत्तौ रविकरशंभुपशुपतिविरचितवृत्तकदम्बकग्रन्थे चावदातमतिभिरूह्यानीत्यलमतिविस्तरेण ॥
अथ गद्यानितत्र
गद्यं पद्यमिति प्राहुर्वाङ्मयं द्विविधं बुधाः । प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥ ३३९ ॥ अपादः पदसंतानो गद्यं तच्च त्रिधा मतम् ।
चूर्णिकोत्कलिका प्रायवृत्तगन्धिप्रभेदतः ॥ ३४॥ ततः
अकठोराक्षणं स्वल्पसमासं चूर्णकं विदुः ।
तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ ३४१॥ यथा
स हि त्रयाणामेव जगतां पतिः परमपुरुषः पुरुषोत्तमो दृप्तदानवभरेण भङ्गुराङ्गीमवनिमवलोक्य करुणाहृदयस्तस्या भारमवतारयितुं रामकृष्णस्वरूपेण यदुवंशेऽवततार । यः प्रसङ्गेनापि स्मृतोऽभ्यचिंतो वा गृहीतनामा पुंसः संसारपारमवलोकयति ।। ३४२ ॥ चूर्णकं निवृत्तम् ॥ अथोत्कलिकाप्रायम्
भवत्युत्कलिकाप्रायं समासस्थं दृढाक्षरम् ॥ ३४३ ॥ उत्कलिकाप्रायं कल्लोलप्रायमुत्प्रभासमानमित्यर्थः ॥

Page Navigation
1 ... 251 252 253 254 255 256